________________
सम्य.
भीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥३५२॥
उद्देशकः १
आहारश्च उपधिश्च पूजा च ऋद्धिश्च-आमौषध्यादिका आहारोपधिपूज यस्तासु निमित्तभृतासु ज्ञानचरणक्रिया करोति, तथा गारवेषु त्रिषु प्रतिबद्धो यत्करोति तत्कृत्रिममित्युच्यते, यथा च ज्ञानचरणयोराहाराद्यर्थमनुष्ठानं कृत्रिम सन्न फलवद्भवति एवं सबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति, न च कृत्रिमानुष्ठायिनः श्रमणभावो, न चाश्रमणस्यानुष्ठानं गुणवदिति, तदेवं निरुपधेर्दर्शनवतस्तपोज्ञानचरणानि मफलानीति स्थितमतो दर्शने यतितव्यं, दर्शनं च तत्वार्थश्रद्धानं, तवं चोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानैस्तीर्थकृद्भिर्यदभाषि, तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति
से बेमि जे अईया, जे य पडुपन्ना आगमिस्सा अरहंता भगवंतो ते सव्वे एवमाइक्खन्ति, एवं भासति, एवं पण्णविंति, एवं परूविंति सव्वे पाणा सव्वे भूया सब्वे जीवा सव्वे सत्ता न हंतव्वा न अज्जावेयव्या न परिचित्तव्वा, न परियावेयव्वा, न उद्दवेयव्या, एस धम्मे सुद्धे निइए समिच लोयं खेयपणेहिं पवेइए, तंजहा-उडिएसु वा अणुहिएसु वा अवविएसु वा, अणुवडिएसु वा, उवरयदंडेसु वा, अणुवरयदंडेसु वा, सोवहिएम वा, अणोषहिएसुवा, संजोगरएसुवा, असंजोगरएसुवा, तच्चं चेयं तहा चेय अस्सि
चेयं पवुच्चइ ।। सू० १२६ ।। गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति, यदिवा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छद्धाने