________________
॥ ३५१॥
तस्मादपि पूर्वप्रतिपन्नोऽसङ्ख्येयगुणनिर्जरक इति सम्यक्त्वोत्पत्तिाख्याता, तदनन्तरं विरताविरति प्रतिपित्सुप्रतिपद्यमानपूर्वप्रतिपन्नानामुत्तरोत्तरस्यासलयेयगुणा निर्जरा योज्या, एवं सर्वविरतावपीति, ततोऽपि पूर्वप्रतिपन्नसर्वरितः सकाशात 'अणंतकम्मसे'त्ति 'पदैकदेशे पदप्रयोग' इति यथा भीमसेनो भीमः सत्यभामा भामा एवमनन्तशब्दोपलक्षिता अनन्तानबन्धिनः, ते हि मोहनीयस्यांशाः-भागाः तांश्चिक्षपयिषुरसङ्ख्येयगुणनिर्जरका, ततोऽपि क्षपका, तस्मादपि क्षीणानन्तानुबन्धिकषायः, एतदेव दर्शनमोहनीयत्रयेऽभिमुखक्रियारूढापवगत्रयमायोज्यं, ततोऽपि क्षीणसप्तकात्तीणसप्तक एवोपशमश्रेण्यारूढोऽसख्येयगुणनिर्जरकः, ततोऽप्युपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि क्षीणमोहः, अत्र चाभिमुखादित्रयं यथासम्भवमायोजनीयम् , अस्मादपि जिनो' भवस्थकेवली, तस्मादपि शैलेश्यवस्थोऽसङख्येयगुणनिर्जरकः। तदेवं कर्मनि गये असङ्ख्येयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः सोत्तरोत्तरेषामसङख्येयगुणा, उत्तरोत्तरप्रवर्द्धमानाध्यवसायकण्डकोपपत्तेरिति; कालस्तु तद्विपरीतोऽयोगिकेवलिन आरभ्य प्रतिलोमतया सङ्ख्येयगुणया श्रेण्या ज्ञेयः, इदमुक्तं भवति-यावत्कालेन यावत्कर्मायोगिकेवली क्षपयति तावन्मात्र कर्म सयोगिकेवली सङ्ख्येयगुणेन कालेन क्षपयति एवं प्रतिलोमतया यावद्धर्म पिपृच्छिषुस्तावन्नेयमिति गाथाद्वयार्थः। एवमनन्तरोक्तया नीत्या दर्शनवतः सफलानि तपोज्ञानचरणान्यभिहितानि, यदि पूनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः, कश्वासावुपाधिस्तमाहआहारउवहिपूआ इड्डीसु य गारवेसु कइतवियं । एमेव वारसविहे तवंमि नहु कइतवे समणो॥२२॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
३५१॥