SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ भीआचारावृत्तिः (शीलाङ्का. .३५०॥ सम्य. अ.४ उद्देशकः १ कुर्वन्नपि निवृत्तिम्-अन्यदर्शनाभिहिता, तद्यथा-पञ्च यमाः पश्च नियमा इत्यादिकां तथा परित्यजन्नपि स्वजनधनभोगान् पश्चाग्नितपादिना दददपि दुःखस्योरः मिथ्यादृष्टिने सिध्यति, तुरवधारणे, नैव सिध्यति, दर्शनविकलत्वाद्, अन्धकुमारवत् असमर्थः कार्यसिद्धये । यत एवं ततः किं कर्त्तव्यमित्याहतम्हा कम्माणीयं जेउमणो दंसणंमि पयइज्जा । दसणवओ हि सफलाणि टुंति तवनाणचरणाई॥२२२॥ यस्मास्मिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात् , तस्मात्कारणात्कानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत, तस्मिश्च सति यद्भवति तदर्शयति-दर्शनवतो हि 'हिः' हेतौ यस्मात्सम्यग्दर्शनिनः सफलानि भवन्ति तपोज्ञानचरणान्यतस्तत्र यत्नवता भाव्यमिति गाथार्थः ॥ प्रकारान्तरेणापि सम्यगदर्शनस्य तत्पूर्वकाणां च गुणस्थानकानां गुणमाविर्भावयितुमाह सम्मत्तपत्ती सावए य विरए अणंतकम्मंसे । दसणमोहक्खवए उवसामन्ते य उवसंते ॥ २२३॥ . खपए य खीणमोहे जिणे असेढी भवे असंखिज्जा। तविवरीओ कालो संखिजगुणाइ सेढीए ॥२२॥ सम्यक्त्वस्योत्पत्तिः सम्यक्त्वोत्पत्तिस्तस्यां विवक्षितायामसङ्ख्येयगुणा श्रेणिर्भवेदित्युत्तरगाथान्तेि क्रियामपेक्ष्य सम्बन्धो लगयितव्यः, कथमसङ्ख्येयगुणा श्रेणिर्भवेदिति ?, अत्रोच्यते, इह मिथ्यादृष्टयो देशोनकोटोकोटिकर्मस्थितिका ग्रन्थिकसवास्ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्मप्रच्छनोत्पन्नसंज्ञास्तेभ्योऽसङ्ख्येयगुणनिर्जरकाः, ततोऽपि पिपृच्छिषुः सन् साधुसमीपं जिगमिषुस्तस्मादपि क्रियाविष्टः पृच्छन् , ततोऽपि धर्म प्रतिपित्सुः, अस्मादपि क्रियाविष्टः प्रतिपद्यमानः, ४॥३५.॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy