SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ । ३४६ ॥ दयति-यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यक्त्ववादो रूढो ? यदिहाध्ययने व्यावयेते, उच्यते. तदभावभाविवादितग्योः, तथाहि-मिथ्यादृष्टेस्ते न स्तः, अत्र च सम्यक्त्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन बालाङ्गनाद्यवबोधार्थ दृष्टान्तमाचक्षते, तद्यथा-उदयसेनराज्ञो वीरसेनसूरसेनकुमारद्वयं, तत्र वीरसेनोऽन्धः, स च तत्प्रायोग्या गान्धर्वादिकाः कला ग्राहितः, इतरस्त्यभ्यस्तधनुर्वेदो लोकश्लाघ्या पदवीमगमत्, एतच्च समाकर्ण्य वीरसेनेनापि । | राजा विज्ञप्तो यथाऽहमपि धनुर्वेदाभ्यासं विदधे, राज्ञाऽपि तदाग्रहमवगम्यानुज्ञातः, ततोऽऽसौ सम्यगुपाध्यायोपदेशात् प्रजातिशयादभ्यासविशेषाच्च शब्दवेधी सञ्ज, तेन चारूढयौवनेन स्वभ्यस्तधनुर्वेद विज्ञानक्रियेणागणितचचर्दर्शनसदसद्भावेन शब्दवेधित्वावष्टम्भात्परबलोपस्थाने सति राजा युद्धायादेशं याचितः, तेनापि याच्यमानेन वितेरे, वीरसेनेन च शब्दानुवेधितया परानीके जजम्मे, परैश्चावगतकुमारान्धभावैमकतामालम्ब्यासौ जग्रहे, सूरसेनेन च विदितवृतान्तेन राजानमापुच्छय निशितशरशतजालावष्टब्धपरानीकेन मोचितः । तदेवमभ्यस्तविज्ञानक्रियोऽपि चक्षुर्विकलवानालमभि. प्रेतकार्यसिद्धये इति । एतदेव नियुक्तिकारो.गाथयोपसंह माहकुणमाणोऽविय किरियं परिचयंतोवि सयणधणभोए।दितोऽवि दुहस्स उरंन जिणइ अंधो पराणीयं ॥२२०॥ __ कुर्वन्नपि क्रियां परित्यजन्नपि स्वजनधनभोगान् दददपि दुःखस्योः न जयत्यन्धः परानीकमिति गाथार्थः ॥ तदेवं दृष्टान्तमुपदर्श्य दार्शन्तिकमाहकुणमाणोऽवि निवित्ति परिचयंतोऽवि सयणधणभोए। दिनोऽविदुहस्स उरं मिच्छद्दिडी न सिज्झइ उ॥२२१॥ प्रेतकार्यसिद्धये इतर परिचयंतोवि सयदपि दुःखस्योरः न जयत । ३४६ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy