SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ भीआचाराजवृत्तिः (चीलाङ्का.) सम्य. अ.४ उद्देशक: १ .३४८॥ द्रव्यसम्यक् ४, पाठान्तरं वा-'उवउत्त'त्ति यदुपयुक्तम्-अभ्यवहृतं द्रव्यं मनःसमाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यक् ४, तथा जढं-परित्यक्तं यद्भारादि तत्यक्तद्रव्यसम्यक् ५, तथा दधिभाजनादि भिन्नं सत् काकादिसमाधानोत्पत्तर्मिन्नद्रव्यसम्यक ६, तथाऽधिक(तथाविध)मांसादिच्छेदाच्छिन्नसम्यक ७, सर्वमप्येतत्समाधानकारणत्वाद्र्व्यसम्यक् विपर्ययादसम्यगिति गाथार्थः ॥ भावसम्यक् प्रतिपादनायाहतिविहं तु भावसम्म दंसण नाणे तहा चरित्ते य । दसणचरणे तिविहं नाणे दुविहं तु नायव्वं ॥२१९॥ त्रिविध भावसम्यक्-दर्शनज्ञानचारित्रभेदात्, पुनरप्येकैकं भेदत आचष्टे-तत्र दर्शनचरणे प्रत्येकं त्रिविधे, तद्यथाअनादिमिथ्यादृष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मणो देशोनसागरोपमकोटिकोटीस्थितिकस्यापूर्वकरणभिन्नग्रन्थेमिथ्यात्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन प्रथम सम्यक्त्वमुत्पादयत औपशमिकं दर्शनम् १, उक्तं च"'ऊसरदेसं दड्डल्लयं च विज्झाइ वणदवो पप्प । इय मिच्छत्ताणुदए उवसमसम्म लहइ जीवो ॥१॥" उपशमश्रेण्या चौपशमिकमिति २, तथा सम्यक्त्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकं २, दर्शनमोहनीयक्षयात् क्षायिकं ३, चारित्रमप्युपशमश्रेण्यामौपशमिकं १ कषायक्षयोपशमात् क्षायोपशमिकं २ चारित्रमोहनीयक्षयात्क्षायिकं , ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यं, तद्यथा-झायोपशमिकं क्षायिकं च, तत्र चतुर्विधज्ञानावरणीयक्षयोपशमात् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानं, समस्तक्षयात्क्षायिक केवलज्ञानमिति । तदेवं त्रिविधेऽपि भावसम्यक्त्वे दर्शिते सति परचो. १ ऊपरदेशं दग्ध च विध्याति वनदवः प्राप्य । एवं मिथ्यात्वानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥१॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥३४८॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy