________________
॥ ३५३ ॥
सम्यक्त्वं भवति तदहं तवं ब्रवीमीति, येऽतीताः - अतिक्रान्ता ये च प्रत्युत्पन्नाः - वर्त्तमानकालभाविनो ये चागामिनः त एवं प्ररूपयन्तीति सम्बन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिक्रान्ता अनागता अध्यनन्ता आगामिकालस्यानन्तत्वात्तेषां च सर्वदैव भावादिति वर्त्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्र सम्भविनः सप्तत्युत्तरशतं तच्चैवं पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् द्वात्रिंशत् पञ्चस्वपि भरतेषु पञ्चैव मैरावतेष्वपीति, तत्र द्वात्रिंशत्पञ्चभिर्गुणिताः षष्ट्युतरशतं (१६०) भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति, जघन्यतस्तु विंशतिः, सा चैव पञ्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतटसद्भावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वेकान्त सुषमादायभाव एवेति, अन्ये तु व्याचक्षते - मेरोः पूर्वापरविदेहयोरेकैकसद्भावान्महाविदेहे द्वावेव ततः पञ्चस्वपि दशैवेति, तथा च ते आहुः–“सत्त रसयमुकोसं इअरे दस समयखेत्त जिणमाणं । चोत्तीस पढमदीवे अणंतरडे य ते दुगुणा ॥ १ ॥” के इमे ? –‘अर्हन्तो' अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याद्युपेता भगवन्तः, ते सर्व एव पर प्रश्नावसरे एवमाचक्षते यदुत्तरत्र वक्ष्यते, वर्त्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम् - एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां परिषदि अर्द्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपनोदायान्तेवासिनो जीवाजीवा स्रवबन्धसंवरनिर्जरा मोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं सम्यग्दर्शनज्ञान चारित्राणि मोक्षमार्गः मिथ्वात्वाविरतिप्रमादकषाययोगा बन्धहेतवः स्वपरभावेन सदसती तत्त्वं सामान्य विशेषात्मकमित्यादिना प्रकारेण
।। ३५३ ।।