________________
श्रीआचाराङ्गवृत्तिः
(शीलाङ्का.)
॥ ३४६ ॥
॥ अथ सम्यक्त्वाख्ये चतुर्थाध्ययने प्रथमोद्द ेशकः ॥
उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः - इह शस्त्रपरिज्ञायामन्वयव्यतिरेकाभ्यां पड्जीवनिकायान् व्युत्पादयता जीवाजीवपदार्थद्वयं व्युत्पादितं तद्वधे च चन्धं विरतिं च भणताऽऽस्रव संवर पदार्थद्वयमूचे, तथा लोकविजयाध्ययने लोको यथा बध्यते यथा च मुच्यत इति वदता बन्धनिर्जरे गदिते, शीतोष्णीयाध्ययने तु शीतोष्णरूपाः परीपहाः सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्ययनत्रयेण सप्तपदार्थात्मकं तत्त्वमभिहितं, तत्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदधुना प्रतिपाद्यते अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्योपक्रमेऽर्थाधिकारो द्वेधा, तत्राध्ययनार्थाधिकारः सम्यक्त्वाख्यः शस्त्रपरिज्ञायां प्रागेवाभाणि, उद्देश कार्थाधिकारप्रतिपादनाय तु नियुक्तिकार आह
पढमे सम्मावाओ बीए धम्मप्पवाइयपरिक्खा । तइए अणवज्जतवो न छु बालतवेण मुक्खुत्ति ॥ २१५॥ उद्देसंमि चउत्थे समासवयणेण नियमणं भणियं । तम्हा य नाणदंसणतवचरणे होइ जइयव्वं ॥ २१६ ॥ प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग् - अविपरीतो वादः सम्यग्वादो - यथावस्थितवस्त्वाविर्भावनं, द्वितीये तु धर्मप्रवादिकपरीक्षा, धम्मं प्रवदितुं शीलं येषां ते धर्म्मप्रवादिनस्त एव धर्म्मप्रवादिकाः, धर्मप्रावादका इत्यर्थस्तेषां परीक्षा-युक्तायुक्तविचारणमिति, तृतीयेऽनवद्यतपोव्यावर्णनं, न च बालतपसा-अज्ञानितपश्चरणेन मोक्ष इत्ययमर्थाधिकारः, चतुर्थोद्देशके तु 'समासवचनेन' सङ्क्षेपवचनेन 'नियमनं भणितं संयत उक्त इति । तदेवं
सम्य• अ. ४
उद्दे शक : १
॥ ३४६ ॥