________________
॥३४५॥
यो हि क्रोधं स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाज्ञानस्य परिहरति च स मानमपि पश्यति परिहरति चेति, यदिवा यः क्रोधं पश्यत्याचरति स मानमपि पश्यति, मानाध्मातो भवतीत्यर्थः, एवमुत्तरत्रापि आयोज्यं, यावत् स दुःखदर्शीति, सुगमत्वान्न विवियते । साम्प्रतं क्रोधादेः साक्षान्निवर्तनमाह-से' इत्यादि, स मेधावी 'अभिनिवर्तयेदु' व्यावर्तयेत् , किं तत् ?-'क्रोधमित्यादि यावद्दुःखं' सुगमत्वाद्वयाख्यानाभावः; स्वमनीषिकापरिहारार्थमाह-एय' मित्यादि, 'एतदु' अनन्तरोक्तमुद्देशकादेरारभ्य पश्यकस्य-तीर्थकृतो दर्शनम्-अभिप्राय:, किम्भूतस्य ?-उपरतशस्त्रस्य पर्यन्तकृतः, पुनरपि किम्भूतोऽसौ ?-'आयाण'मित्यादि आदानं कम्र्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिदसाविति, किं चास्य भवतीत्याह-'किमत्थी'त्यादि, 'पश्यकस्य केवलिनः 'उपाधिः' विशेषणं उपाधीयत इति वोपाधिः, द्रव्यतो हिरण्यादिर्भावतोऽष्टप्रकार कर्म, स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते ?, नास्तीति, एतदहं ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिनं कथयति, यथा सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपास(य)ता सर्वमेतदश्रावि तद्भवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति । गतः सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशकः ॥ ३-४॥ तत्परिसमाप्तौ चातीतानागतनयविचारातिदेशात् समाप्तं शीतोष्णीयाध्ययनामति ॥ ३ ॥ ग्रन्थानं ७१०॥
"३४५॥