SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Ks यानं-चारित्रं तच्चानेकभवकोटिदुर्लभं लब्धमपि प्रमाद्यतस्तथाविधकर्मोदयात् स्वप्नावाप्तनिधिसमतामवाप्नोत्यतो मह च्छब्देन विशेष्यते, महच्च तद्यानं च महायानं, यदिवा महद्यानं-सम्यगदर्शनादित्रयं यस्य स महायानो-मोक्षस्तं यान्तीति सम्बन्धः । स्यात्-किमेकेनैव भवेनावाप्तमहायानदेश्यचारित्रस्य मोक्षावाप्तिरुत पारम्पर्येण १, उभयथाऽपि बमः । तद्यथा-अवाप्ततद्योग्यक्षेत्रकालस्य लघुकर्मणस्तेनैव भवेन मुक्त्यवाप्तिरपरस्य त्वन्यथेपि दर्शयति-'परेण पर' मित्यादि, सम्यक्त्वप्रतिषिद्धनरकगतितिर्यग्गतयो ज्ञानावाप्तियथाशक्तिप्रतिपालितसंयमा आयुषः क्षयात् सौधर्मादिकं देवलोकमवाप्नुवन्ति, ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोत्पत्त्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति, पुनरपि ततश्च्युतस्यावाप्तमनुष्यादिसंयमभावस्याशेषकर्मक्षयान्मोक्षः, तदेवं परेण-संयमेनोद्दिष्टविधिना 'परं' स्वर्ग पारम्पर्येणापवर्गमपि यान्ति, यदिवा 'परेण' सम्यगदृष्टिगुणस्थानेन पर देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकमधितिष्ठन्ति, परेण वाऽनन्तानुबन्धिक्षयेणोल्लसत्कण्डकस्थानाः 'परं' दर्शनमोहनीयचारित्रमोहनीयक्षय धातिमवोपग्राहिकर्मणां वा क्षयमवाप्नुवन्ति, एवंविधाश्च कर्मक्षपणोद्यता जीवितं कियद्गतं किंवा शेषमित्येवं नावकाझन्ति, दीर्घजीवित्वं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकाङक्षन्तीति, यदिवा परेण परं यान्तीत्युत्तरोत्तर तेजोलेश्यामवाप्नुवन्तीति, उक्तं च-"जे 'इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं कस्स १य इमे अद्यतया श्रमणा निर्ग्रन्था विहरन्ति, एते कस्य तेजोलेश्यां व्यतिब्रजन्ति ?, गौतम ! मासपर्यायः श्रमणो निम्रन्थो व्यन्तराणां देवानां तेजोलेश्या व्यतित्रजति, एवं द्विमासपर्यायः असुरेन्द्रवर्जितानां भवनवासिनां देवानां, त्रिमासपर्यायोऽसुरकुमाराणां ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥३४१॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy