________________
भीआचारामवृत्तिः (चीलाङ्का.)
शीतोष्णीय । अ.३ उद्देशकः ४
ऐहिकामुष्मिकापायाद् 'अप्रमत्तस्य' आत्महितेषु जाग्रतो नास्ति भयं संसारापसदात्सकाशाकर्मणो वा, अप्रमत्तता च कषायाभावाद्भवति, तदभावाञ्चाशेषमोहनीयाभावः, ततोऽप्यशेषकर्मक्षयः, तदेवमेकाभावे सति बहूनामभावसम्भवः, एकाभावोऽपि बह्वभावानान्तरीयक इत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भाव दर्शयितुमाह-'जे एग' मित्यादि, यो हि प्रवर्द्धमानशुभाध्यवसायाधिरूढकण्डकः एकम्-अनन्तानुबन्धिनं क्रोधं 'नामयति' क्षपयति स बहूनपि मानादीनामयतिक्षपयति अप्रत्याख्यानादीन् वा स्वभेदान्नामयति, मोहनीयं चैकं यो नामयति स शेषा अपि प्रकृती मयति, यो वा बहून् स्थितिशेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति मोहनीयं वा, तथाहि-एकोनसप्ततिभिर्मोहनीयकोटीकोटिभिः क्षयमुपागतामिः ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनविंशद्भिः नामगोत्रयोरेकोनविंशतिभिः शेषकोटीकोट्याऽपि देशोनया मोहनीयक्षपणा) भवति, नान्य इत्यतोऽपदिश्यते-यो बहुनामः स एव परमार्थत एकनाम इति, नाम इति क्षपकोऽभिधीयते उपशामको वा, उपशमश्रेण्याश्रयेणेकबहूपशमता बहुवेकोपशमता वा वाच्येति, तदेवं बवेककाभावमन्तरेण मोहनीयक्षयस्योपशमस्य वाऽभावः, तदभावे च जन्तूनां बहुदुःखसम्भव इति दर्शयति'दुक्ख' मित्यादि, 'दुःखम्' असातोदयस्तत्कारणं वा कर्म तत् 'लोकस्य' भूतग्रामस्य ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च यथा तदभावो भवति तथा विदध्यात्, कथं तदभावः ? का वा तदभावे गुणावाप्तिरित्युभयमपि दर्शयितुमाह-'वंता' इत्यादि, 'वान्त्वा'त्यक्त्वा लोकस्य-आत्मव्यतिरिक्तस्य धनपुत्रशरीरादेः 'संयोग' ममत्वपूर्वक सम्बन्धं शारीरदःखादिहेतु तद्धेतुकर्मोपादानकारणं वा 'यान्ति' गच्छन्ति 'धीराः कर्मविदारणसहिष्णवः यान्त्यनेन मोक्षमिति
॥३४.॥
܀܀܀܀܀܀܀