________________
भीआचाराङ्गवृत्तिः
(झीलाङ्का.)
॥ ३३६ ॥
तमिममर्थं पश्य-- परिच्छिन्द्धि कर्त्तव्या कर्त्तव्यतया विवेकेनावधारय, कोऽसौ ?--द्रव्यभूतो - मुक्तिगमनयोग्यः साधुरित्यर्थः, एवम्भूतश्च कं गुणमवाप्नोति ? - आलोक्यत इत्यालोकः, कर्म्मणि घञ, लोके चतुर्द्दशग्ज्वात्मके आलोको लोकालोकस्तस्य प्रपञ्चः -- पर्याप्तकापर्याप्त कसुभगादिद्वन्द्व विकल्पः, तद्यथा-नारको नारकत्वेनावलोक्यते, एकेन्द्रियादिरे केन्द्रिय( यादि ) त्वेन एवं पर्याप्तकापर्याप्तकाद्यपि वाच्यं तदेवम्भूतात्प्रपञ्चान्मुच्यते-- चतुर्द्दशजीवस्थान' न्यतरव्यपदेशार्हो न भवतीतियावद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ इति शीतोष्णीयाध्ययने तृतीयोदेशकटीका समाप्ता ॥ ३-३॥
-::
॥ अथ तृतीयाध्ययने चतुर्थोद्द ेशकः ॥
उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः -- इहानन्तरोदेशके पापकर्माकरणतया दुःखसहनादेव केवलाच्छ्रमणो न भवतीति अपि तु निष्प्रत्यूहसंयमानुष्ठानादित्येतत्प्रतिपादितं निष्प्रत्यूहता च कषायवमनाद्भवति, तदधुना प्रागुद्देशार्थाधिकारनिद्दिष्टं प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यं तच्चेदम्-
सेवंता कोहं च माणं च माय च लोभं च एयं पासगस्स दंसणं, उवरयसत्थस्स पलियंतकरस्स, आयाणं सगडन्भि || सू० १२१ ।।
'स' ज्ञानादिसहितो दुःखमात्रास्पृष्टोऽव्याकुलितमतिर्द्रव्यभूतो लोकालोकप्रपञ्चात् मुक्तदेश्यः स्वपरापकारिणं क्रोधं
| शीतोष्णीय०
अ. ३ उद्देशः ४
॥ ३३६ ॥