________________
दुहओ जीवीयस्स परिवंदणमाणणपूयणाए, जसि एगे पमायंति ॥ सू० ११६ ॥ द्विधा--रागद्वेषप्रकारद्वयेनात्मपरनिमित्तमैहिकामुष्मिकार्थ वा यदिवा द्वाभ्यां--रागद्वेषाभ्यां हतो द्विहतो दुष्टं हतो वा दुर्हतः, स किं कुर्याद् ?--जीवितस्य कदलीगर्भनिःसारस्य तडिल्लतासमुल्लसितचञ्चलस्य परिवन्दनमाननपूजनार्थ हिंसादिषु प्रवर्तते, परिवन्दनं-परिसंस्तवस्तदर्थमाचेष्टते, लावकादिमांसोपभोगपुष्टं सर्वाङ्गोपाङ्गसुन्दरमवलोक्य मां जनाः सुखमेव परिवन्दिष्यन्ते, श्रीमान् जीयास्त्वं बहूनि वर्षशतसहस्राणीत्येवमादि परिवन्दनं, तथा माननार्थ कर्मोपचिनोति, दृष्ट्वीरसबलपराक्रमं मामन्येऽभ्युत्थानविनयासनदानाञ्जलिप्रग्रहैर्मानयिष्यन्तीत्यादि माननं, तथा पूजनार्थमपि प्रवर्त्तमानाः कर्मास्रवैरात्मानं भावयन्ति, मम हि कृतविद्यस्योपचितद्रव्यप्रारभारस्य परो दानमानसत्कारप्रणामसेवाविशेषः पूजा करिष्यतीत्यादि पूजनं, तदेवमर्थ कर्मोपचिनोति । किं च-जंसि एगे'इत्यादि, यस्मिन् परिवन्दनादिनिमित्ते एके गगद्वेषोपहताः प्रमाद्यन्ति, न ते आत्मने हिताः। एतद्विपरीतं त्वाह
सहिओ दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपवंचाओ मुच्चा त्तिबेमि ॥ सू० १२०॥इति तृतीय उद्देशकः ।। ३--३ ॥ सहितो--ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्भवया वा स्पृष्टः सन् 'नो झंझाए'त्ति नो व्याकुलितमतिर्भवेत् , तदपनयनाय नोद्यच्छेद्, इष्टविषयावाप्तौ रागझझाऽनिष्टावाप्तौ च द्वेषझञ्झति, तामुभयप्रकारामपि व्याकुलता परित्यजेदिति भावः । किं च-'पासिम' मित्यादि, यदुक्तमुद्देशकादेरारम्यानन्तरसूत्रं यावत्