SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ भीआचारावृत्तिः (शीलावा. ॥ ३३४ ॥ मायाय सेयं समणुपस्सइ ।। सू० ११८ ।। शीतोष्णीय. ___ 'यं' पुरुष 'जानीयात्' परिच्छिन्द्यात्कर्मणां विषयसङ्गानां चोच्चालयितारम्-अपनेतारं तं जानीयाद् 'दूरालयिक'मिति, दूरे सर्वहेयधर्मेभ्य इत्यालयो दूगलया-मोक्षस्तन्माों वा स विद्यते यस्येति मत्वर्थीयष्ठन् दूरालयिकस्त- उशकार मिति, हेतुहेतुमद्भावं दर्शयितु गतप्रत्यागतसूत्रमाह-'जं जाणेज्जे'त्यादि, यं जानीयाालयिक तं जानीयादुच्चालयितारमिति, एतदुक्तं भवति-यो हि कर्मणां तदास्रवद्वाराणां चोच्चालयिता--अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा सन्मार्गानुष्ठायी स कर्मणामुच्चालयितेति, सच आत्मनो मित्रमतोऽपदिश्यते-'पुरिसा' इत्यादि, हे जीव ! आत्मानमेवाभिनिगृह्य धर्मध्यानाबहिर्विषयाभिष्वङ्गाय निःसरन्तमवरुध्य ततः 'एवम्' अनेन प्रकारेण दुःखात्सकाशादात्मानं प्रमोक्ष्यसि, एवमात्मा कर्मणां उच्चालयिताऽऽत्मनो मित्रं भवति । अपि च-'पुरिसा' इत्यादि, हे पुरुष ! सद्भ्यो हितः सत्यः--संयमस्तमेवापरव्यापारनिरपेक्षः समभिजानीहि--आसेवनापरिज्ञया समनुतिष्ठ, यदिवा सत्यमेव समभिजानीहि--गुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव, यदिवा सत्यः-आगमस्तत्परिज्ञानं च मुमुक्षोस्तदुक्तप्रतिपालनं । किमर्थमेतदिति चेदाह-'सच्चस्से'त्यादि, सत्यस्य--आगमस्याज्ञयोपस्थितः सन् मेधावी 'मारं' संसारं तरति, किं च'सही'त्यादि, सहितो-ज्ञानदियुक्तः सह हितेन वा युक्तः सहितः 'धम्म' श्रुतचारित्राख्यं 'आदाय' गृहीत्वा, किं करोतीत्याह- श्रेयः' पुण्यमात्महितं वा सम्यग--अविपरीततयाऽनुपश्यति समनुपश्यति । उक्तोऽप्रमत्तः तद्गुणाच, तद्विपर्ययमाह ॥३३४॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy