________________
॥ ३३३॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
वोपदेशार्हत्वात्तदनुष्ठानसमर्थत्वाच्चेति, कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिनाऽनुशास्यते-यथा हे पुरुष-हे जीव ! तवं सदनुष्ठान विधायित्वात्त्वमेव मित्रं, विपर्ययाच्चामित्रः, किमिति बहिर्मित्रमिच्छसि ?-मृगयसे, यतो झुपकारि मित्रं, स चोपकारः पारमार्थिकात्यन्ति कान्तिकगुणोपेतं सन्मार्गपतितमात्मानं विहाय नान्येन शक्यो विधातु, योऽपि संसारसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितं, यतो महाव्यसनो पनिपातार्णवपतनहेतुत्वादमित्र एवासौ, इदमुक्तं भवति-आत्मैवात्मनोऽप्रमत्तो मित्रम् , आत्यन्तिकैकान्तिक-परमार्थसुखोत्पादनात , विपर्ययाच्च विपर्ययो, न बहिर्मित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽदृष्टोदयनिमित्तवादौपचारिक इति, उक्तं हि-''दुप्पत्थिओ अमित्तं अप्पा सुपस्थिओ अ ते मित्तं । सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं च ॥ १॥" तथा-"अप्येकं मरणं कुर्यात्, संक्रडो बलवानरिः। मरणानि त्वनन्तानि, जन्मानि च करोत्ययम् ।। १॥" यो हि निर्वाणनिर्वतकं व्रतमाचरति स आत्मनो मित्रं, स चैवम्भूता कुतोऽवगन्तव्यः १ किंफलश्चेत्याह
जं जाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा! अत्ताणमेवं अभिणिगिज्झ एवं दुक्खा पमुच्चसि, पुरिसा! सच्च
मेव समभिजाणाहि, सच्चस्स आणाए से उवहिए मेहावी मारं तरह, सहिओ धम्म१ दुष्पस्थितोऽमित्र आत्मा सुप्रस्थितश्च ते मित्रम् । सुखदुःखकारणात आत्मा मित्रममित्रश्च ॥१॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀