________________
भीआचाराङ्गवृत्तिः
(शीलाङ्का.)
॥ ३३२ ॥
****
का अरई के आणंदे, एत्थपि अग्गहे घरे, सव्वं हासं परिचज आलीणगुत्तो परिव्वए, पुरिसा ! - तुममेव तुमं मित्तं किं बहिया मित्तमिच्छसि ? ॥ सू० ११७ ॥
इष्टाप्राप्तिविनाशोत्थो मानसो विकारोऽरतिः, अभिलषितार्थावाप्तावानन्दः, योगिचित्तस्य तु धर्म्मशुक्लध्यानावेशावष्टब्धध्येयान्तरावकाशस्यारत्यानन्दयोरुपादान कारणाभावादनुत्थानमेवेत्यतोऽपदिश्यते - के यमर तिर्नाम को वाऽऽनन्द इति १, नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति । एवं तर्ह्य रतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानाद् यतोऽत्रारतिरतिविकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अप्यरतिरती, तदाह – 'एत्थंपी' त्यादि, अत्राप्यरतावानन्दे चोपसर्जनप्राये न विद्यते 'ग्रहो' गाये तात्पर्यं यस्य सोऽग्रहः, स एवम्भूतश्चरेद्-अवतिष्ठेत, इदमुक्तं भवति - शुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्निमित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाह - 'सव्व' मित्यादि, सर्वं हास्यं तदास्पदं वा परित्यज्याङ् – मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाक्काय कर्म्मभिः कूर्म्मवद्वा संवृतगात्रः, आलीन श्वासौ गुप्त वालीन गुप्तः स एवम्भूतः परिः- समन्ताद्व्रजेत् परिव्रजेत् - संयमानुष्ठान विधायी भवेदिति । तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद्भवति न परोपरोधेनेति दर्शयति- 'पुरिसा' इत्यादि, यदिवा त्यक्तगृह पुत्र कलत्रधनधान्यहिरण्यादितया अकिञ्चनस्य समतृणमणिमुक्ताले दुकाश्चनस्य मुमुक्षोरुपसर्ग व्याकुलितमतेः कदाचिन्मित्राद्याशंसा भवेतदपनोदार्थमाह - 'पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषो - जन्तुः, पुरुषद्वारामन्त्रणं तु पुरुषस्यै
शीतोष्णीय ● अ० ३ उद्देशकः ३
॥ ३३२ ॥