________________
। ३३१॥
जन्मादिना साई पूर्वम-अतिक्रान्तं जन्मादि न स्मरन्ति, 'कथं वा' केन वा प्रकारेणातीतं सुखदुःखादि, कथं चष्यमित्येतदपि न स्मरन्ति, एके भाषन्ते--किमत्र ज्ञेयं ?, यथैकस्य गगद्वेषमोहसमुत्थैः कर्मभिद्धयमानस्य जन्तोस्तद्विपाकाचानुभवतः संसारस्य यदतिक्रान्तमागाम्यपि तत्प्रकारमेवेति, यदिवा प्रमादविषयकपायादिना कर्माण्युपचित्येष्टानिष्टविषयाननुभवतः सर्वज्ञवाकसुधास्वादासंविदो यथा संसारोऽतिक्रान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरमाजस्ते पूर्वोत्तरदिन इत्येतदर्शयितुमाह-'नाईय' मित्यादि, तथैव--अपुनरावृत्त्या गतं- गमनं येषां ते तथागताः--सिद्धाः, यदिवा यथैव ज्ञेयं तथैव गत--ज्ञानं येषां ते तथागता:--सर्वज्ञाः, ते तु नातीतमर्थमनागतरूपतयैव नियच्छन्ति--अवधारयन्ति नाप्यनागतमतिक्रान्तरूपतयैव, विचित्रत्वात् परिणतेः, पुनरर्थग्रहणं पर्यायरूपाथ, द्रव्यार्थतया त्वेकत्वमेवेति, यदिवा नातीतमर्थ विषयमोगादिक नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलषन्ति वा, के ?, तथागता:--रागद्वेषाभावात पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, सर्वज्ञास्तु नैमिति । तन्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह-'विलय कप्पे' इत्यादि, विविधम्--अनेकधा धृतम्-अपनीतमष्टप्रकार कर्म येन स विधृतः, कोऽसौ ? कल्प:--आचारो, विधूतः कल्पो यस्य साधोः स विधृतकल्पः स एतदनुदर्शी भवति, अतीतानागतसुखाभिलाषी न भवतीतियावत्, एतदनुदर्शी च किंगुणो भवतीत्याह-'निज्झोस' इत्यादि, पूर्वोपचितकर्मणां निझोपयिता--क्षपकः क्षपयिष्यति वा तुजन्तमेतन्लुडन्तं वा । कर्मक्षपणायोद्यतस्य च धर्मभ्यायिनः शुक्लध्यायिनो
R३३१॥ वा महायोगीश्वरस्य निरस्तसंसारसुखदुःखविकल्पाभासस्य यत्स्यात्तदर्शयति