SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय. भीआचारावृत्तिः (शीलाका) उद्देशकः ३ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ एयाणपस्सी, निझोसइत्ता खवगे महेसी ॥२॥ रूपकं, 'अपरेण' पश्चात्कालभाविना सह पूर्वमतिक्रान्तं न स्मरन्त्येकेऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य जन्तोनरकादिभवोद्भूतं बालकुमारादिवयोपचितं वा दुःखाद्यतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो भावीति, यदि पुनरतीतागामिपर्यालोचनं स्यान्न तर्हि संसारे रतिः स्यादिति उक्तं च-"'केण ममेत्थुप्पत्ती कहं इओ तह पुणोऽवि गंतव्वं ?। जो एत्तियंपि चिंतइ इत्थं सो को न निधिण्णो ? ॥१॥" एके पुनर्महामिथ्याज्ञानिनो भाषन्ते-'इह' अस्मिन् संसारे मनुष्यलोके वा मानवा-मनुष्या यथा यदस्य | जन्तोरतीतं स्त्रीपुनपुसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविट्शूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिष्यम् आगामीति, यदिवा न विद्यते पर:-प्रधानोऽस्मादित्यपर:-संयमस्तेन बासिनचित्ताः सन्तः 'पूर्व' पूर्वानुभूतं विषयसुखोपभोगादि 'न स्मरन्ति' न तदनुस्मृतिं कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकाङ्क्षन्ति, किं च-अस्य जन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यम्-आगामीत्येतदपि न स्मरन्ति, यदिवा कियान् कालोऽतिक्रान्तः कियानेष्यति, लोकोत्तरास्तु भाषन्ते-एके रागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वा यदस्य जन्तोरनादिनिधनत्वात् कालशरीरसुखाद्यतीतमागामिन्यपि तदेवेति, अपरे तु पठन्ति-"अवरेण पुव्वं किह से अतीतं, किह आगमिस्सं न सरंति एगे। भासन्ति एगे इह माणवाओ, जह से अईअंतह आगमिस्सं ॥१॥" अपरेण १ केन ममात्रोत्पत्तिः केतः तथा पुनरपि गन्तव्यम् । य इयदपि चिन्तयति अत्र स कः न निर्विण्णा ? ॥ १ ॥ ॥ ३३.॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy