SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀ ॥३२६॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ तदकरणादिति भावः, स्यात्-किमालम्ब्यैतत्कर्त्तव्यमित्याह-'आगइ' मित्यादि, आगमनम्-आगतिः सा च तिर्यगमनुध्ययोश्चतुर्दा, चतुर्विधनरकादिगत्यागमनसद्भावाद् , देवनारकयोद्वेधा, तिर्यग्मनुष्यगतिभ्यामेवागमनसद्भावाद् एवं गतिरपि, मनुष्येषु तु पश्चधा, तत्र मोक्षगतिसद्भावाद्, अतस्तामागतिं गतिं च परिज्ञाय संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वादन्तौ-रागद्वषो ताभ्यां द्वाभ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा. क्त्वाप्रत्ययस्योत्तरक्रियामाह-'से' इत्यादि, सः-आगतिगतिपरिज्ञावा रागद्वेषाभ्यामनपदिश्यमानो न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पावकादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, अथवा रागद्वेषाभावात् सिद्धयत्येव, तदवस्थस्य चैतानि छेदनादीनि विशेषणानि 'कंचण' मिति विभक्तिपरिणामात् केनचित्सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते रागद्वेषोपशमादिति, तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाच्च छेदनादिसंसारदुःखाभावः। 8 अपरे च साम्प्रवेक्षिणः कुतो वयमागताः ? व यास्यामः ? किं वा तत्र नः सम्पत्स्यते ?, नैवं भावयन्त्यतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह अवरेण पुद्वि न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं। भासति एगे इह माणवाओ, जमस्स तोयं तमागमिस्सं ॥१॥ (अवरेणपुवि किह से अतीतं, किह आगमिस्सं न सरंति एगे। भासन्ति एगे इह माणवाओ, जह से अइ तह आगमिस्सं ॥॥ नाईयमहूँ न य आगमिस्सं, अह नियच्छन्ति तहागया उ। विहयकप्पे
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy