________________
नुष्ठानं तत्सर्व मुनिभावकारणमिति भावार्थः, तेन चागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं 'विप्रसादयेद' विविधं भीआचा
शीतोष्णीय. प्रसादयेदागमपर्यालोचनेन समतादृष्टया वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् । राङ्गवृत्तिः
Bal अ०३ आत्मप्रसन्नता च संयमस्थस्य भवति, तत्राप्रमादवता भाव्यमित्याह च–'अणण्णपरम मित्याद्यनुष्टुप , न विद्यतेऽन्यः (शीलाका.
उद्देशक:३ परमः-प्रधानोऽस्मादित्यनन्यपरमः-संयमस्तं 'ज्ञानी' परमार्थवित् 'नो प्रमादयेत' तस्य प्रमादं न कुर्यात्कदाचिदपि, ॥३२८॥al यथा चाप्रमादवत्ता भवति तथा दर्शयितुमाह-'आयगुत्ते' इत्यादि, इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः 'सदा'
सर्वकालं यात्रा-संयमयात्रा तस्यां मात्रा यात्रामात्रा, मात्रा च 'अच्चाहारो न सहे' इत्यादि, तयाऽऽत्मानं यापयेद्यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यादित्युक्तं भवति, उक्तं च-'आहारार्थं कर्म । कुर्यादनिन्द्यं, स्यादाहारः प्राणसन्धारणार्थम् । प्राणाः धार्यास्तत्त्वजिज्ञासनाय, तत्वं ज्ञेयं येन भूयो न भूयात् ॥१॥" सैवात्मगुप्तता कथं स्यादिति चेदाह-'विराग' मित्यादि, विरञ्जनं विरागस्तं विरागं रूपेषु मनोज्ञेषु चक्षुर्गोचरीभूतेषु 'गच्छेदू' यायात , रूपमतीवाऽऽक्षेपकार्यतो रूपग्रहणम् , अन्यथा शेषविषयेष्वपि विरागं गच्छेदित्युक्तं स्यात् , महता-दिव्यभावेन यद्वयवस्थितं रूपं चल्लंकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति, अथवा दिव्यादि प्रत्येक महत क्षुल्लं चेति क्रिया पूर्ववत् , नागार्जुनीयास्तु पठन्ति-"विसयंमि पंचगंमि, दुविहंमि तिय तियं । भावओ सुट्ट जाणित्ता, से न लिप्पड दोसुवि ॥१॥" शब्दादिविषयपश्चकेऽपि इष्टानिष्टरूपतया द्विविधे हीन
n३२८॥ मध्यमोत्कृष्टभेदमित्येतत् भावतः-परमार्थतः सुष्टु ज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि-रागद्वेषाभ्यां न लिप्यते,
܀
܀܀
܀܀
܀