SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ॥३२७॥ रित्यर्थः, अद्रोहाध्यवसायो हि मुनिभावकारण, स च तत्र न विद्यते, अपरोपाध्यावेशात् , विनेयो वा पृच्छति-यदिदं परस्पराशङ्कया आधाकादिपरिहरणं तन्मुनिभावाङ्गता यात्याहोस्विन्नेति ? आचार्य आह-सौम्य । निरस्तापरव्यापार शृणु-'जमिण'-मित्यादि, अपरोपाधिनिरस्तहेयव्यापारत्वमेव मुनिभावकारणमिति भावार्थः, यतः शुभान्तःकरणपरिजामव्यापारापादितक्रियस्य मुनिमावो नान्यथेति, अयं सावनिश्चयनयाभिप्रायो व्यवहाराभिप्रायेण तूच्यते-यो हि सम्यग्दृष्टिरुत्तिप्तपञ्चमहाव्रतमारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुह्यद्याराध्यभयेन गौरवेण वा केनचिदाधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणातापनादिका जनविज्ञाताः क्रिया: करोति, तत्र वस्य मुनिभाव एव कारणं, तद्वयापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः ॥ तदेवं शुभान्तःकरणव्यापारविकलस्य मुनित्वे सदसद्भावः प्रदर्शितः, कथं तर्हि नैश्चयिको मुनिभाव इत्यत आह समयं तत्थुवेहाए अप्पाणं विप्पसायए-अणनपरमं नाणी, नो पमाए कयाइवि । आयगुत्ते सया वीरे, जायामायाइ जावए ॥१॥ विरागं रूवेहिं गच्छिज्जा महया खुइएहि य, आगई गई परिण्णाय दोहिवि अंतेहिं अविस्समाणेहिं से न छिज्जा न मिज न डझइन हमइ कंचणं सव्वलोए ॥ सू० ११६ ॥ समभावः समता तां तत्रोत्प्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्प्रकारेणानेषणीयपरिहरणं लज्जादिना जनविदितं चोपवासादि तत्सर्व मुनिभावकारणमिति, यदिवा समयम्-आगमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिना ॥३२७.
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy