________________
उद्दशका३
X
हि लोकस्य चारकाधवरुद्धस्य कुड्थनिगडादीनां सन्धि-छिद्रं ज्ञात्वोपलभ्य न प्रमादः श्रेयान् , एवं मुमुक्षोरपि कर्मभीआचा
शीतोष्णीय. विवरमासाद्य लवक्षणमपि पुत्र कलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति, यदिवा सन्धानं सन्धिः, स च भावसन्धिर्ज्ञानरावृत्तिः
दर्शनचारित्राध्यवसायस्य कम्मर्मोदयात् त्रुटथतः पुनः सन्धान-मीलनम् , एतत्क्षायोपशमिकादिभावलोकस्य विभक्तिपरि(शीलाका.)
णामाद्वा लोके ज्ञानदर्शनचारित्राहे भावसन्धि ज्ञात्वा तदक्षुण्णप्रतिपालनाय विधेयमिति, यदिवा सन्धिः-अवसरो धर्मा॥३२६॥ नुष्ठानस्य तं ज्ञात्वा लोकस्य-भूतग्रामस्य दुःखोत्पादनानुष्ठानं न कुर्यात् । सर्वत्रात्मौपम्यं समाचरेदित्याह-'आयओ'
इत्यादि, यथा वात्मनः सुखमिष्टमितरत्चन्यथा तथा बहिरपि-आत्मनो व्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च पश्य' अवधारय । तदेवमात्मसमतां सर्वप्राणिनामवधार्य किं कर्त्तव्यमित्याह-'तम्हा' इत्यादि, यस्मात्& सर्वेऽपि जन्तवो दुःखद्विषः सुखलिप्सवस्तस्मात्तेषां 'न हन्ता' न व्यापादकः स्यामाप्यपरस्तान जन्तून विविधैः-नाना
प्रकारैरुपायैर्षातयेत विधातयेदिति, यद्यपि कांश्चित् स्थलान् सत्वान् स्वयं पापण्डिनो न घ्नन्ति तथाऽप्यौदेशिकसन्निध्यादिपरिभोगानुमतेरपर्धातयन्ति । न चैकान्तेन पापकर्माकरणमात्रतया श्रमणो भवतीति दर्शयति-'जमिण' मित्यादि,
यदिद-यदेतत् पापकर्माकरणताकारणं, किं तद् १, दर्शयति-अन्योऽन्यस्य परस्परं या विचिकित्सा-आशङ्का परस्परतो 8 . भयं लज्जा वा तया तां वा प्रत्युपेक्ष्य परस्पराशङ्कयाऽपेक्षया वा पाएं-पापोपादानं कर्मानुष्ठानं 'न करोति'न विधत्ते,
किं प्रश्ने क्षेपे वा, 'तत्र' तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात् ?, किं मुनिरितिकृत्वा पापकर्म न करोति ?, काका पृच्छति, यदिवा यदि नामासौ यथोक्तनिमित्तात्पापानुष्ठान विधायी न सञ्जज्ञे किमेतावतैव मुनिरसौ ?, नैव मुनि