SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ वीर्यरूपमुन्मज्जनमासाद्य-लब्ध्वा, अन्यत्र सम्पूर्णमोक्षमार्गासम्भवात् मानुष्येष्वित्युक्तं, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादत्तरक्रियामाह-'नो पाणिण मित्यादि, प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां प्राणान-पवेन्द्रियत्रिविधबलोच्छवासनिश्वासायुष्कलक्षणान्-'नो समारभेथाः न व्यपरोपयेः, तदुपघातकार्यनुष्ठानं मा कृथा इत्युक्तं भवति, इतिः पग्सिमाप्तौ, ब्रवीमीति पूर्ववत् । शीतोष्णीयाध्ययने द्वितीयोदेशकटीका समाप्तेति ॥ ३-२॥ ॥ अथ तृतीयाध्ययने ततीयोद्देशकः ॥ उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आग्भ्यते, अस्य चायमभिसम्बन्धः, इहानन्तगेद्देशके दुःखं तत्सहनं च प्रति- 13 पादितं, न च तत्सहनेनैव संयमानुष्ठानरहितेन पापकर्माकरणतया वा श्रमणो भवतीत्येतत् प्रागुद्देशार्थाधिकारनिर्दिष्टमुच्यते, ततोऽनेन सम्बन्धेनायातस्यास्योहेशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् संधि लोयस्स जाणित्ता, आयओ बहिया पास, तम्हा न हंता न विधायए, जमिणं अन्न मन्नवितिगिच्छाए पडिलेहाए न करेइ पावं कम्मं, किं तत्थ मुणी कारणं सिया॥सू०११५॥ तत्र सन्धिव्यतो भावतश्च, द्रव्यतः कुडथादिविवरं भावतः कर्मविवरं, तत्र दर्शनमोहनीयं यदुदीर्ण तत्क्षीणं शेषमुपशान्तमित्ययं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः, यदिवा ज्ञानावरणीय विशिष्टक्षायोपशमिकभावमुपगतमित्ययं 18/ सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मकः सन्धिस्तं ज्ञात्वा न प्रमादः श्रेयानिति, यथा ॥३२ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy