SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ॥३३७॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ च वमिता 'टुवम् उद्गिरणे' इत्यस्मात्ताच्छीलिकस्तृन्, तद्योगे च षष्ठयाः प्रतिषेधे क्रोधशब्दाद् द्वितीया, लुडन्तं चैतत् , यो हि यथोक्तसंयमानुष्ठायी सोऽचिरात् क्रोधं वमिष्यति, एवमुत्तत्रापि यथासम्भवमायोज्यं, तत्रात्मात्मीयोपघातकारिण क्रोधकर्मविपाकोदयात्क्रोधः, जातिकुलरूपबलादिसमुत्थो मवों मानः परवञ्चनाध्यवसायो माया, तृष्णापरिग्रहपरिणामो लोभः, क्षपणोपशमक्रममांश्रित्य च क्रोधादिक्रमोपन्यासः, अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनस्वगतमेदाविर्भावनाय व्यस्तनिर्देशः, चशब्दस्तु पर्वतपृथ्वीरेणुजलराजिलक्षणलक्षकः क्रोधस्य, शैलस्तम्भास्थिकाष्ठतिनिशलतालक्षणलक्षको मानस्य, वंशकुडङ्गीमेषशृङ्गगोमूत्रिकाऽवलेखकलक्षण लक्षको मायायाः, कृमिरागकई मखञ्जनहरिद्रालक्षणसूचको लोभस्य, तथा यावज्जीवसंवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति । तदेवं क्रोधमानमावालोमवमनादेव पारमार्थिकः श्रमणभावो, न तत्सम्भवे सति, यत उक्तम्- 'सामण्णमणुचरंतस्स कसाया जस्स उक्कडा हुँति । मन्नामि उच्छपुप्फ व निष्फलं तस्स सामण्ण ॥१॥ ज अजिअ चरितं देसूणाएवि पुव्वकोडीए। तपि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं ॥ २॥" स्वमनीषिकापरिहारार्थ गौतमस्वाम्याह-एय' मित्यादि, 'एतद्' यत्कषायवमनमनन्तरमुपादेशि तत् 'पश्यकस्य दर्शन' सर्व निरावरणत्वात्पश्यति-उपलभत इति | पश्यः स एव पश्यकः-तीर्थकृत् श्रीवर्धमानस्वामी तस्य दर्शनम्-अभिप्रायो यदिवा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति ५ श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति। मन्ये इक्षुपुष्पवत् निष्फलं तस्य श्रामण्यम ।। १।। यदर्जितं चारित्र देशोनयाऽपि पूर्वकोट्या । तदपि कषायितमात्रो हारयति नरो मुहूर्तेन ॥२॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥३३७
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy