SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ .३१९॥ आयुष्कन्धाभावात् षड्विधम् , एतच्च जघन्यतः सामयिकमुत्कृष्टतस्त्वन्तमुहर्तमिति, तथोपशान्तक्षीणमोहसयोगिकेवलिनां सप्तविधबन्धोपरमे सातमेकं बघ्नतामेकविध बन्धस्थानं, तच्च जघन्येन सामयिकमुत्कष्टतो देशोनपूर्वकोटि कालीयं । इदानीमुत्तरप्रकृतिवन्धस्थानान्यभिधीयन्ते-तत्र ज्ञानावरणान्तराययोः पश्चभेदयोरप्येकमेव ध्रुववन्धित्वावन्धस्थानं, दर्शनावरणीयस्य त्रीणि बन्धस्थानानि-निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वान्नवविधं १, ततः स्त्यानद्धित्रिकस्यानन्तानुबन्धिभिः सह बन्धोपरमे षड्विधं २, अपूर्वकरणसङ्ख्येयभागे निद्राप्रचलयोर्वन्धोपरमे चतुर्विधं बन्धस्थानं ३ । वेदनीयस्यैकमेव बन्धस्थान-सातमसातं वा बध्नतः, उभयोरपि योगपद्येन विरोधितया बन्धाभावात् । मोहनीयबन्धस्थानानि दश, तद्यथा-द्वाविंशतिः-मिथ्यात्वं १ षोडश कषाया १७ अन्यतरवेदो १८ हास्यरतियुग्मारतिशोकयुग्मयोरन्यतर २० शयं २१ जुगुप्सा २२ चेति १, मिथ्यात्वबन्धोपरमे सास्वादनस्य सेवकविंशतिः २, सैव सम्यगमिथ्यादृष्टेरविरतसम्यग्दृष्टेर्वा अनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानं ३, तदेव देशविरतस्याप्रत्याख्यानबन्धाभावे त्रयोदशविधं ४, तदेव प्रमत्ताप्रमत्तापूर्वकरणानां यतीनां प्रत्याख्यानावरणबन्धाभावानवविधं ५, एतदेव हास्यादियुग्मस्य भयजुगुप्सयोश्चापूर्वकरणचरमसमये बन्धोपरमात्पञ्चविधं ६, ततोऽनिवृत्तिकरणसङ्ख्येयभागावसाने पुवेदबन्धोपरमाच्चतुर्विधं ७, ततोऽपि तस्मिन्नेव सङ्ख्येयमागे क्षयमुपगच्छति सति क्रोधमानमायालोभसज्वलनानां क्रमेण बन्धोपरमात्त्रिविधं ८ द्विविध : मेकविधं १० चेति, तस्याप्यनिवृत्तिकरणचरमसमये बन्धोपरमान्मोहनीयस्या kalu ३१९॥ बन्धकः । आयुषः सामान्येनेकविध बन्धस्थानं चतुर्णामन्यतरत् , यादेयोगपद्यन बन्धाभावो विरोधादिति । नाम्नोऽष्टौ
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy