________________
बीआचारावृत्तिः (चीलाङ्का
मृषावादादत्तादानादिवघ्यायोज्यं । यदि नामैवं ततः किमित्याह-'मल'मित्यादि, अलं-पर्याप्तं बालस्य-अज्ञस्य यः प्राणातिपातादिरूपः सङ्गो विषयकषायादिमयो वा तेनालं, बालस्य हास्यादिसङ्गेनालं, किमिति चेद् ?, उच्यते, 'वेर'
Saeशीतोष्णीय. मित्यादि, पुरुषादिवधममुत्थं वैरं तद्वालः सङ्गानुषङ्गी सन्नात्मनो वर्द्धयति, तद्यथा-गुणसेनेन हास्यानुषङ्गादग्निशाणं नानाविधैरुपायैरुपहसता नवभवानुषङ्गि वैरं वर्द्धितं, एवमन्यत्रापि विषयसङ्गादावायोज्यं ॥ यतश्चैवमतः किमित्याह
उद्देशकः २ तम्हातिविजो परमति णच्चा, आयंकदंसी न करेइ पावं ।
अग्गं च मूलं च विगिंच धीरे, पलिच्छिदिया णं निकम्मदंसी ॥ ४ ।। यस्माद्वालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परम-मोक्षपदं सर्वसंवरूपं चारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा. एतत्परममिति ज्ञात्वा किं करोतीत्याह--'आर्यके'त्यादि, आतङ्को-नरकादिदुःख तद्रष्टुं शीलमस्येत्यातङ्कदर्शी स 'पापं पापानुबन्धि कर्म न करोति, उपलक्षणार्थत्वान्न कारयति नानुमन्यते । पुनरप्युपदेशदानायाह--'अग्गं च'इत्यादि, अग्रं-भवोपग्राहिकर्मचतुष्टयं मूलं-घातिकर्मचतुष्टयं यदिवा मोहनीयं मूलं शेषाणि त्वग्रं, यदिवा मिथ्यात्वं मुलं शेपं त्वग्रं, तदेवं सर्वमग्रं मूलं च 'विगिंच' इति त्यजापनय पृथक्कुरु, तदनेनेदमुक्तं भवति-न कर्मणः पौद्गलिकस्यात्यन्तिकः क्षयः, अपि त्वात्मनः पृथक्करणं, कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वम् १ इति चेत् , तदशाच्छेषप्रकृतिबन्धो यता, उक्त च-"न मोहमतिवृत्त्य पन्ध उदितस्त्वया कर्मणां, न चैकविधषन्धनं प्रकृतिवन्धविभवो महान् । अनादिभवहेतुरेष न च बध्यते नासकृत्त्वयाऽतिकुटिला गतिः कुशल ! कर्मणां दर्शिता
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀