________________
टुःखदर्शनादतीव विद्या-तत्त्वपरिच्छेत्री 'यस्यासावतिविद्यः स 'परमं मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यक्त्वदर्शी: सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति । पापस्य च मूल स्नेहपाशास्तदपनोदार्थमाह
उम्मुच पासं इह मच्चिएहिं, आरंभजीवी उभयाणुपस्सी। . कामेसु गिडा निचयं करंति, संसिच्चमाणा पुणरिति गम्भं ॥२॥ इह मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारमत्त्यैः सार्द्ध द्रव्यभावमेदभिन्नं पाशमुव-प्राबल्येन 'मुश्च' अपाकुरु, स हि कामभोगलालसस्तदादानहेतोहिंसादीनि पापान्यारभते अतोऽपदिश्यते-'आरंभ' इत्यादि, आरम्भेण जीवितु शीलमस्येत्यारम्भजीवी-महारम्भपरिग्रहपरिकल्पितजीवनोपायः उभय-शारीरमानसमैहिकामुष्मिकं वा द्रष्टुं शीलमस्येति स तथा, किंच-'कामेसु' इत्यादि, कामा-इच्छामदनरूपास्तेषु गृद्धाः-अध्युपपन्ना निचयं-कम्मोपचयं कुर्वन्ति । यदि नामैवं ततः किमित्याह-'संसिच' इत्यादि, तेन कामोपादानजनितेन कर्मणा 'संसिच्यमानाः' आपूर्यमाणा गर्भादगर्भान्तरमुपयान्ति, संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति । तदेवनिभृतात्मा किंभूतो भवतीत्याह--
अवि से हासमासज्जे, हंता नंदीति मन्नई । अल बालस्स संगण, वेरं वड्ड अप्पणो ॥३॥ ह्रीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य-अङ्गीकृत्य 'स' कामगृध्नुहत्वाऽपि प्राणिनो 'नन्दीति क्रीडेति मन्यते, वदति च महामोहावृतोऽशुभाध्यवसायो यथा एते पशवो मृगयाथ सृष्टाः, मृगया च सुखिना क्रीडायै भवति, इत्येवं
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀