SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॥१६॥ जिभसंजमो १ अ लोगो जह बज्झइ जह य त पजहियव्वं २। सुहदुक्खतितिक्खाविय ३ सम्मत्तं ४ लोगसारो . य ॥३३॥ निस्संगया ६ य छठे मोहसमुत्था परीसहुवसग्गा ७ । निज्जाणं ८ अहमए नवमे य जिणेण एवं ति ९॥ ३४॥ तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो–'जियसंजमोत्ति जीवेषु संयमो जीवसंयमः-तेषु हिंसादिपरिहारः, स च जीवास्तित्वपरिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्राधिकारः । लोकविजये तु 'लोगो जह बज्झइ जह य तं पजहियबति, विजितभावलोकेन संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा यथा च तत्प्रहातव्यं तथा ज्ञातव्यमित्ययमर्थाधिकारः । तृतीये त्वयम्-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते सुखदुःखतितिक्षा विधेयेति । चतुर्थे त्वयम्-प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतपासेविनामष्टगुणेश्वर्यमुद्वीश्यापि दृढसम्यक्त्वेन भवितव्यमिति । पञ्चमे त्वयम्-चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररत्नत्रयोधु क्तेन भाव्यमिति । षष्ठे त्वयम्प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेनाप्रतिबद्धेन भवितव्यम् । सप्तमे त्वयम्-संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परिपहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् सोढव्याः। अष्टमे त्वयम्-निर्याणम्-अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति । नवमे त्वयम्--अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगे बर्द्धमानस्वामिना विहित इति, रात्प्रदर्शनं च शेषसाधनामुत्साहार्थ, १ उदइओ भावो लोगा कसाया जाणियव्वा (इति चूर्णिः) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy