SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (sitorgr.) ॥ १८ ॥ चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति - गतिभक्षणगुणभेदात्, तत्र गतिचरणं गमनमेव, आहारचरणं मोदकादेः, गुणचरणं द्विधा - लौकिकं लोकोत्तरं च लौकिक यत् द्रव्यार्थं हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते, लोकोत्तरं साधूनामनुपयुक्त चरण मुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्य्यते व्याख्यायते वा, शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव || भावचरणमाह भावे गइमाहारो गुणो गुणवओ पसत्थमपसत्था । गुणचरणे पसत्थेण बंभचेरा नव हवंति ॥ ३० ॥ भावचरणमपि गत्याहारगुणभेदात् त्रिधा तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टीर्गच्छतः, भक्षणचरणमपि शुद्धं पिण्डमुपभुञ्जनस्य, गुणचरणमप्रशस्तं मिथ्यादृष्टीनां सम्यग्दृष्टीनामपि सनिदानं, प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थ मूलोत्तरगुण कलापविषयम्, इह चानेनैवाधिकारो, यतो नवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थमनुशील्यन्ते ॥ एतेषां चान्वर्थाभिधानानि दर्शयितुमाह सत्यपरिण्णा १ लोगविजओ २ य सीओसणिज्ज ३ सम्मत्तं ४ । तह छोगसारनामं ५ थुयं ६ तह महापरिण्णा ७ य ॥ ३१ ॥ अट्टमए य विमोक्खो ८ उवहाणसुयं ६ च नवमगं भणियं । इच्चेसो आयारो आयारग्गाणि सेसाणि ॥ ३२ ॥ स्पष्टे, केवलमित्येष नवाध्ययनरूप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणि - आचाराग्राणीति ॥ साम्प्रतमुपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राद्यमाह - [ श्रध्ययनं १ उद्दे शकः १ 11 2 = 11
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy