________________
॥३१३॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्महेतुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादान हेतोनिवृत्तिं विदध्यादिति, पुनरप्युपदेशदानायाह-'पडिलेहिअ' इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्व समादाय गृहीत्वा अन्तहेतुत्वादन्तौ-रागद्वेषौ ताभ्यां सहादृश्यमानः ताभ्यामनपदिश्यमानो वा तत्कर्म तदुपादानं वा रागादिक झपरिजया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति, रागादिमोहितं लोकं विषयकषायलोकं वा ज्ञात्वा वान्वा च 'लोकसंज्ञा' विषयपिपासासंज्ञितां धनायाग्रहग्रहरूपां वा 'स' मेधावी मर्यादाव्यवस्थितः सन् 'पराक्रमेत' संयमानुष्ठाने उद्यक्तो मवेत विषयपिपासामरिषड्वर्ग वाऽष्टप्रकारं वा कविष्टभ्याद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत । इति शीतोष्णीयाध्ययने प्रथमोद्देशकटीका समाप्ता ॥ ३-१॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ अथ तृतीयाध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरम्यते, अस्य चायमभिसम्बन्धः पूर्वो देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषां स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्
जाई च बुद्धिं च इहऽज ! पासे, भूएहिं जाणे पडिलेह सायं । - तम्हाऽतिविज्जे परमंति णचा, संमत्तदसो न करेइ पावं ॥१॥
॥३१३॥