SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय. भीआचाराङ्गवृत्तिः (शीलाका) शकः १ .३०६॥ संयमरत्यरतिसहः सन् परुषता-कर्कशता पीडाकारिता परीपहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो 'नो वेत्ति' न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वा परुषतां शरीरपीडोत्पादनात कर्मलेपापनयनाद्वा संसारोद्विग्नमना मुमुक्षुनिराबाधसुखोन्मुखो 'न वेत्ति' न संयमतपसी पीडाकारित्वेन गृह्णातीतियावत् । किं च–'जागर' इत्यादि, असंयमनिद्रापगमाज्जागर्तीति जागरः, अभिमानसमुत्थोऽमर्षावेशः परापकामध्यवसायो वैरं तस्मादुपरतो वैरोपरतो, जागरश्वासौ वैरोपरतश्चेति विगृह्य कर्मधारयः, क एवम्भूतो ?–'वोरः' कर्मापनयनशक्त्युपेतः, एवम्भूतश्च त्वं वीर ! आत्मानं परं वा दुःखाद्दुःखकारणाद्वा कर्मणः प्रमोक्ष्यसीति । यश्च यथोक्ताद्विपरीतः आवर्तश्रोतसोः सङ्गमुपगतोऽजागरः सनकिमाप्नुयादित्याह-जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो 'नर' प्राणी 'सततम्' अनवरतं 'मूढो' महामोहमोहितमतिर्द्धम्म-स्वर्गापवर्गमार्ग नाभिजानीते-नावगच्छति, तत् संसारे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः, देवानां जराऽभाव इति चेत् , न, तत्राप्युपान्त्यकाले लेश्यावलसुखप्रभुत्ववर्णहान्युपपत्तरस्त्येव च तेषामपि जरासद्भावा, उक्तं हि-"'देवा णं भंते ! सव्वे समवण्णा ?, नो इणहे समडे, | सेकेण टेणं भंते ! एवं वुच्चइ ?, गोयमा! देवा दुविहा-पुव्योववण्णगा य पच्छोववण्णगा य । तत्थ णं जे ते पुब्वोचवण्णगा ते णं अविसुद्धवण्णयरा, जे णं पच्छोववण्णगा ते णं विसुद्धवण्णयरा" एवं १ देवा मदन्त ! सर्वे समवर्णाः १, नेषोऽर्थः समर्थः, तन केनार्थेन भदन्त ! एवमुच्यते ?, गौतम ! देवा द्विविधाः-पूर्पोत्पन्नकाश्च पश्चादुपपन्नकाश्च तत्र येते पूर्वात्पन्नकास्तेऽविशुद्धवर्णाः, ये पश्चादुत्पन्नास्ते विशुद्धवर्णाः । ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥३०६ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy