________________
शब्दादिविषयसङ्गस्य परिहर्ता स एव यथावस्थितलोकस्वरूपपरिच्छे दीति । यश्चानन्तरगुणोपेतः स किं वाच्य ? इत्यत आह-'मुणी' इत्यादि, यो यात्मवान् ज्ञानवान् वेदवान् धर्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तैर्वा लोक जानाति स मुनिर्वाच्यो, मनुते मन्यते वा जगतस्त्रिकालावस्था मुनिरितिकृत्वा, किंच-'धम्म' इत्यादि, धर्म-चेतनाचेतनद्रव्यस्वभावं तचारित्ररूपं वा वेत्तीति धर्मवित् , 'ऋजु'रिति ऋजो:-ज्ञानदर्शनचारित्राख्यस्य मोक्षमार्गास्यानुष्ठानादकुटिलो यथावस्थितपदार्थस्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इतियावत् । तदेवं धर्मवि जुर्मुनिः किम्भूतो भवतीत्याह-'आवट्ट' इत्यादि, भावावत्तों-जन्मजरामरणरोगशोकव्यसनोपनिपातात्मकः संसार इति, उक्तं हि-"रागद्वेषवशाविड, मिथ्यादर्शनदुस्तरम्। जन्मावर्ते जगत्क्षिप्तं, प्रमादाभ्राम्यते भृशम् ॥१॥" भावश्रोतोऽपि शब्दादिकामगुणविषयाभिलाषः, आवर्त्तश्च श्रोतश्चावर्त्तश्रोतसी तयो रागद्वेषाभ्यां सम्बन्धः-सङ्गस्तमभिजानातिआभिमुख्येन परिच्छिनत्ति-यथाऽयं सङ्गः आवर्त्तश्रोतसोः कारणं, जानानश्च परमार्थतः कोऽभिधीयते ?, योऽनर्थ ज्ञात्वा परिहरति, ततश्चायमर्थः-संसारश्रोत:-सङ्गं रागद्वेषात्मकं ज्ञात्वा यः परिहरति स एव आवत्तश्रोतसोः सङ्गस्याभिज्ञाता॥ सुप्तजाग्रता दोषगुणपरिच्छेदी के गुणमवाप्नुयादित्याह
सीउसिणच्चाई से निग्गथे अरहरइसहे, फरुसयं नो वेएइ, जागर वेरोवरए, वीरे एवं
दुक्खा पमुक्खसि, जरामच्चुवसोवणिए नरे सययं मूढे धम्म नाभिजाणइ ॥सू० १०८।। सबाह्याभ्यतरग्रन्थरहितः सन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपौ वा परीषहावतिसहमानः संयमा