________________
बोआचा- रावृत्तिः (शीलाका
शीतोष्णीय ___ अ.३ उद्देशकः १
यत्रागृहीतपरमार्थाः । एकः पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः॥ २॥" अथवा शब्दे पुष्पशालाडूद्रा ननाश रूपे अर्जुनकतस्करः गन्धे गन्धप्रियकुमारः रसे सौदासः स्पर्शे सत्यकिः सुकुमारिकापतिर्वा ललिताङ्गकः, परत्र च नारकादियातनास्थानभयमिति ॥ एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ कं गुणमवाप्नुयादित्याह
से आयवं नाणवं (आयवी नाणवी) वेयणं धमवं बंभवं पन्नाणेहिं परियाणइ लोयं,
मुणीति बुच्चे, धम्मविऊ उज्जू, आवट्टसोए संगमभिजाणइ ॥ सू० १०७ ॥ ___ यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो लोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान् दुःखैकहेतूनभिसमन्वागच्छति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्रत्याचष्टे 'स' मुमुक्षुरात्मवान्-आत्मा ज्ञानादिकोऽस्यास्तीत्यात्मवान् , शब्दादिपरित्यागेन ह्यात्माऽनेन रक्षितो भवति, अन्यथा नारकैकेन्द्रियादिपाते सत्यात्मकार्याकरणाकुतोऽस्यात्मेति, 'पाठान्तरं' वा 'से आयवी नाणवी' आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित , तथा ज्ञानं-यथावस्थितपदार्थपरिच्छेदकं. वेत्तीति ज्ञानवित् , तथा वेद्यते जीवादिस्वरूपम् अनेनेति वेदः-आचाराद्यागमः वेनीत्ति वेदवित , तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्म वेत्तीति धर्मवित् , एवं ब्रह्म-अशेषमलकलङ्कविकलं योगिशर्म वेत्तीति ब्रह्मवित , यदिवा अष्टादशधा ब्रह्म ति, एवम्भृतश्चासौ प्रकर्षण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि-मत्यादीनि तैलोकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति-परिच्छिनत्तीत्युक्तं भवति, य एव
॥३०४॥