________________
॥३०३॥
स्वापादज्ञानरूपादुःखहेतोरपसर्पणमिति, किं चान्यत्-'समय'मित्यादि, समय:-आचारोऽनुष्टानं तं लोकस्यासुमद्वातस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेदित्युत्तरसूत्रेण सम्बन्धो, लोको हि भोगाभिलाषितया प्राण्युपमर्दादिकपायहेतुकं कम्र्मोपादाय नरकादियातनास्थानेषूत्पद्यते ततः कथञ्चिदुद्वृत्त्यावाप्य चाशेषक्लेशवातघ्नं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहितमतिस्तत्तदारभते येन येनाधोऽधो व्रजति, संसारान्नोन्मज्जतीति, एवं लोकाचारस्तं ज्ञात्वा, अथवा समभावः ममता तां ज्ञात्वा, 'लोकस्येति सप्तम्यर्थे षष्ठी, ततश्चायमों-'लोके' जन्तुसमहे 'समता समशत्रुमित्रतां समात्मपरता वा ज्ञात्वा, यदिवा सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभी वः सुखेप्सवो दुःखद्विष इत्येवम्भूतां समता ज्ञात्वा, किं कुर्यादित्याह–'एत्थ सत्थोवरए', 'अत्र' अस्मिन् षटकायलोके शस्त्राद्द्रव्यभावभेदादुपरतो धर्मजागरणेन जागृहि, यदिवा यद्यत्संयमशस्त्रं प्राणातिपाताद्यास्रबद्वारं शब्दादिपश्चप्रकारकामगुणाभिष्वङ्गो वा तस्माद्य उपरतः स मुनिरिति, आह च-'जस्सिम' इत्यादि, यस्य मुनेरिमे-प्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपरसगन्धस्पर्शा मनोज्ञेतरभेदभिन्ना 'अभिसमन्वागता' इति, अभिः-आभिमुख्येन सम्यग्-इष्टानिष्टावधारणतयाऽन्विनि-शब्दादिस्वरूपावगमात् पश्चादागता:-जाताः परिच्छिन्ना यस्य मुनेर्भवन्ति स लोकं जानातीति सम्बन्धः, इदमुक्तं भवति-इष्टेषु न रागमुपयाति नापीतरेषु द्वेषम् , एतदेवाभिसमन्वागमनं तेषां नान्यदिति, यदिवेहैव शब्दादयो दुःखाय भवन्त्यास्तां तावत्पग्लोक इति, उक्तं च-"रक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः। कृपणपतङ्गो रूपे भुजगो गन्धे तनु विनष्टः ॥ १॥ पञ्चसु रक्ताः पञ्च विनष्टा
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥३०३॥