SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ॥ ३०१ ॥ कस्यापि न भवति, तद्द्बन्धश्च मिध्यादृष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिवृत्तिवादरगुणस्थान कालसंख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्त्यपूर्वकरण कालसंख्येयभागान्ते भवति, क्षयः पुनः क्षीणकषायद्विचरणसमये, उदयस्तूपशम कोपशान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः । यथा च द्रव्यसुप्तो दुःखमवाप्नोत्येवं भावसुप्तोऽपि (इति) दर्शयितुमाह जह सुत्त मत्तमुच्छि असहीणो पावए बहुँ दुक्खं । तिब्वं अपडियारंपि वट्टमाणो तहा लोगो ॥ २१३॥ सुप्तो निंद्रा मत्तो मदिरादिना मूच्छितो गाढमम्प्रहारादिना 'अस्वाधीनः - परायत्तो वातादिदोषोद्भवग्रहणादिना यथा बहु दुःखमप्रतीकारमवाप्नोति तथा भावस्वापे - मिथ्यात्वा विरतिप्रमादकषायादिकेऽपि 'वर्त्तमानः' अवतिष्ठमानो 'लोकः' प्राणिगणो नरकभवादिकं दुःखमवाप्नोतीति गाथार्थः । पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाहएसेव य उवएसो पदित्त पयलाय पंथमाईसु । अणुहवह जह सचेओ सुहाई समणोऽवि तह चेव ॥ २१४॥ 'एष एव ' पूर्वोक्त उपदेशो यो विवेकाविवेकजनितः, तथाहि - सचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनुभवति, पथिविषये च सापायनिरपायविवेकज्ञः, आदिग्रहणादन्यस्मिन्वा दस्युभयादौ समुपस्थिते सतिं यथा विवेकी सुखेनैव तमपायं परिहरन् सुखभाग् भवति एवं श्रमणोऽपि भावतः सदा विवेकित्वाज्जाग्रदवस्थामनुभवन् समस्त कल्याणास्पदीभवति । अत्र च सुप्तासुप्ताधिकारगाथा: - ""जागरह णरा णिच्चं जागरमाणस्स वड्ढएं वुडी । जो सुअइ १ जागृत नरा नित्यं जातो वर्धते बुद्धिः । यः स्वपिति न स धन्यः यो जागर्ति स सदा धन्यः ॥ १ ॥ स्वपिति स्वपतः श्रुतं ॥ ३०१
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy