SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय अ.३ श्रीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥३०॥ अज्ञानिनो दुःखिनो दुःखानामेवावत्तमनुपरिवर्तन्ते इति, उक्तं च-"नातः परमहं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् ॥१॥" इत्यादि, इह सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्राप्रमादवन्तो(दापन्ना) द्रव्यसुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, ततो ये 'अमुनयः' मिथ्यादृष्टयः सततं भावसुप्ताः सद्विज्ञानानुष्ठानरहितत्वात् , निद्रया तु भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तस्ते सततम्अनवरतं 'जाग्रति' हिताहितप्राप्तिपरिहारं कुर्वते, अतो द्रव्यनिद्रोपगता अपि क्वचिद्वितीयपौरुष्यादौ सततं जागरूका एवेति ।। एनमेव भावस्वापं जागरणं च विषयीकृत्य नियुक्तिकारो गाथा जगादसुत्ता अमुणिओ सया मुणिओ सुत्तावि जागरा हुँति । धम्म पडुच्च एवं निद्दासुत्तण भइयव्वं ॥२१॥ सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्रया द्रव्यसुप्तान् गाथान्ते वक्ष्यति, भावसुप्तास्त्वमुनयो-गृहस्था मिथ्यात्वाज्ञानावृता हिंसाद्यास्रवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिथ्यात्वादिनिद्रतयाऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूका एव, यद्यपि क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थ निद्रावशोपगता भवन्ति तथापि सदा जागरा एव, एवं च धर्म प्रतीत्योक्ताः सुप्ता जाग्रदवस्थाश्च । द्रव्यनिद्रासुप्तेन तु भाज्यमेतद्-धर्मः स्याद्वा न वा, यद्यसौ भावतो जागर्ति ततो निद्रासुप्तस्यापि धर्मः स्यादेव, यदिवा भावतो जाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यादपि, यस्तु द्रव्यभावसुप्तस्तस्य न स्यादेवेति भजनाः । अथ किमिति द्रव्यसुप्तस्य धम्मों न भवतीति ?, उच्यते, द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता, किमिति ?, यतः स्त्यानचित्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धि ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ३..॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy