________________
॥ २९९ ॥
उष्णतरं तपो भवति, किमिति १-यतः कषायादिकमपि दहति, आदिशब्दाच्छोका दिपरिग्रह इति गाथार्थः । येनाभिप्रायेण द्रव्यभावभेदभिन्ने परीषहप्रमादोद्यमादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोति
सीउण्हफाससुहदुहपरी सहकसायवे यसोय सहो । हुज्ज समणो सया उज्जुओ य तवसंजमोवसमे ॥ २१०॥ शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्शोष्ण स्पर्शजनितवेदनामनुभवन्नार्त्तध्यानोपगतो भवतीतियावत्, शरीरमनसोरनुकूलं सुखमिति, तद्विपरीतं दुःखं, तथा परीषहकषायवेदशोकान् शीतोष्णभृतान् सहत इति । तदेवं शीतोष्णादिसहः सन् भवेत् 'श्रमणः ' यतिः सदोद्युक्तश्च क्व ? - तपःसंयमोपशमे इति गाथार्थः ।। साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयति
सोयाणिय उण्हाणि य भिक्खूणं हुँति विसहियव्वाई | कामा न सेवियव्वा सीओसणिज्जस्स निज्जुत्ती ॥ २११
'शीतानि' परीषहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि 'उष्णानि च' परीषदतप उद्यमकषायशोकवेदारत्यात्मकानि प्रागभिहितानि तानि 'मिक्षूणां ' मुमुक्षूणां विषोढव्यानि न सुखदुःखयोः उत्सेकविषादों विधेयौ, तानि चैवं सम्यग्दृष्टिना सह्यन्ते यदि कामपरित्यागो भवतीति गाथाशकलेनाह - 'कामा' इत्यादि गाथार्द्धं सुगमं । तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोषत्रात विकलं सूत्रमुच्चारयितव्यं तच्वेदम्
सुत्ता अमुणी सया मुणिणां जागरंति ।। सू० १०५ ।।
अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्-इह दुःखी दुःखानामेवावर्त्तमनुपरिवर्त्तत इत्युक्तं तदिहापि भावसुप्ता
।। २९९ ।