SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय. उद्देशकः १ भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, 'एष' शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो श्रीआचा वा सुखदुःखरूपो विवक्षावशाद्भवतीति गाथार्थः ॥ साम्प्रतं सुखपदविवरणायाहराङ्गवृत्तिः निव्वाणमुहं सायं सीईभूयं पयं अणाषाहं । इहमवि जं किंचि सुहं तं सीयं दुक्खमवि उण्हं ॥२०८॥ (शीलाका.) सुखं शीतमित्युक्तं, तच्च समस्तद्वन्द्वोपरमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां मुक्ति॥२८॥ सुखमेव सुखं नापरम् , एतच्च समस्तकोपतापाभावाच्छीतमिति दर्शयति-'निर्वाणसुख मिति, निर्वाणम्-अशेषकर्म क्षयस्तदवाप्तौ वा विशिष्टाकाशप्रदेशः तेन तत्र वा सुखं निर्वाणसुखम् , अस्य चैकार्थिकानि-सातं शीतीभृतं पदमनाबाधमिति । इहापि संसारे यत्किश्चित् सातावेदनीयविपाकोद्भुतं सात-सुखं तदपि शीतं मनआल्हादाद्, एतद्विपर्ययस्तु दुःखं, तच्चोष्णमिति गाथार्थः ॥ कषायादिपदव्याचिख्यासयाहउज्झइ तिव्वकसाओ सोगभिभूओ उहन्नवेओ य । उण्हयरो होइ तवो कसायमाईविज डहइ ॥२०॥ 'दह्यते' परिपच्यते, कोऽसौ ?-'तीव्रा' उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, 'शोकाभिभूतश्च' इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुमव्यापारोऽसावपि दह्यते, तथा उदीर्णो विपाकापन्नो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, नपुंसकस्तूभयमिति, तत्प्राप्त्यभावे ka काङ्क्षोद्भूतारतिदाहेन दह्यते, चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन दह्यते, तदेवं कषायाः शोको वेदोदयश्च । दाहकत्वादुष्णः, सर्व वा मोहनीयमष्टप्रकारं वा कम्र्मोष्णं, ततोऽपि तद्दाहकत्वादुष्णतरं तप इति गाथाशकलेन दर्शयति २६८.
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy