________________
॥ २१५॥
तेणेव य पुट्ठो नो झंझाए' ३, चतुर्थोद्देशके त्वयमधिकारो, यथा-कषायाणां वमनं कार्य, पापस्य च कर्मणो विरतिः, 'विदुषो विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, क्षपकश्रेणिप्रक्रमात् केवलं भवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः ॥ नामनिष्पन्ने तु निक्षेपे शीतोष्णीयमध्ययनमतः शीतोष्णयोनिक्षेपं निर्दिदिक्षुराहनाम ठवणा सीयं दव्वे भावे य होइ नायव्वं । एमेव य उण्हस्सवि चउव्विहो होइ निक्खेवो ॥२०॥
सुगमा । तत्र नामस्थापने अनादृत्य द्रव्यशीतोष्णे दर्शयितमाहदव्वे सीयलदव्वं दव्वुण्हं चेव उण्हदव्वं तु । भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो ॥ २०१॥
ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद्रव्यं द्रव्यप्राधान्याच्छीतलद्रव्यमेव द्रव्यशीतं-हिमतुषारकरकादि, एवं द्रव्योष्णमपीति । भावतस्तु द्वेधा-पुद्गलाश्रितं जीवाश्रितंच, गाथाशकलेनाचष्टे-तत्र पुद्गलाश्रितं मावशीतं पुद्गलस्य शीतो गुणो गुणस्य प्राधान्यविवक्षयेति, एवं भावोष्णमपि, जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा-औदयिकादयः षड् भावाः, तत्रौदयिकः कर्मोदयाविर्भूतनारकादिभवकषायोत्पत्तिलक्षणः उष्णः, औपशमिकः कम्र्मोपशमावाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वाद्, अथवाऽशेषकर्मदाहान्यथानुपपत्तेहष्णः, शेषा अपि विवक्षातो द्विरूपा अपीति ॥ अस्य च जीवभावगुणस्य शीतोष्णविवेक स्वत एव नियुक्तिकारः प्रचिकटयिषुराहसीयं परीसहपमायुवसमविरई सुहं च उण्हं तु। परीसहतबुजमकसाय सोगाहिवेयारई दुक्खं ॥२०२॥ दारं।
॥ २५॥