________________
भीआचा
राङ्गवृत्तिः
(शीलाङ्का.)
॥ २९४ ॥
॥ अथ शीतोष्णीयाख्ये तृतीयाध्ययने प्रथमोद्द ेशकः ॥
+2625iggeser
उक्तं द्वितीयमध्ययनं साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, तत्र शस्त्रपरिज्ञायामस्यार्थाधिकारोऽभाणि, यथा शीतोष्णयोरनुकूलप्रतिकूल परिषहयोरतिसहनं कर्त्तव्यं तदधुना प्रतिपाद्यते, अध्ययन सम्बन्धस्तु शनपरिज्ञोक्तमहाव्रतसम्पन्नस्य लोकविजयाध्ययन प्रसिद्धसंयम व्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रतिलोमाः परीषदाः प्रादुष्पन्ति तेऽविकृतान्तःकरणेन सम्यक सोढव्या इत्यनेन सम्बन्धेनायातमिदमध्ययनम् अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः उद्देशार्थाधिकारप्रतिपादनार्थं तु नियुक्तिकार आह—
पढमे सुत्ता अस्संजयत्ति १ बिइए दुहं अणुहवंति २ । तइए न हु दुक्खेण अकरणयाए व समणुत्ति ३ ॥ १९८ ॥ उद्देसंमि चउत्थे अहिगारो उ वमणं कसायाणं । पावविरईओ विओसो संजमो इत्थ मुक्खुत्ति ४ ॥ १९९॥
प्रथमोऽयमर्थाधिकारो, यथा-भावनिद्रया सुप्ताः- सम्यग्विवेकरहिताः, के ? - असंयताः - गृहस्थास्तेषां च भावसुप्तानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा- 'जरामच्चुवसोवणीए नरे' इत्यादि १, द्वितीये तु त एवासंयता यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा - 'कामेसु गिद्धा निचयं करंति' २, तृतीये तु 'न हु' नैव दुःख सहनादेव केवलाच्छ्रमणः अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेणेत्यर्थः वच्यति च - 'सहिए दुक्खमायाय
शीतोष्णीय • अ. ३ उद्द शकः १
॥ २९४ ॥