________________
मवाप्नोतीत्याह--'न लिप्पईत्यादि, 'न लिप्यने' नावगुण्ठ्यते, केन ?—'क्षणपदेन' हिंसास्पदेन प्राण्युपमर्द जनितेन, 'क्षणु हिंसायामि त्यस्यैतद्रूपं । कोऽसौ ?, बी' इति । किमेतावदेव वीरलक्षणमुतान्यदप्य(स्त्य)स्तीन्याह-'से मेहावीत्यादि, स 'मेधावी' बुद्धिमान य: रणोदयातनस्य खेदज्ञः' अणत्यनन जन्तुगणश्चतुर्गतिकं संसार्गमत्यणं-कर्म तस्योत्-प्राबल्येन धातनम्-अपन यनं तस्य तत्र वा खेदज्ञो-निपुणः, इह हि कर्मक्षपणोधताना मुमुक्षूणां यः कर्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत्-'जे य'इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशसस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा तमन्वेष्टु-मृगायतु शीलमस्येत्यन्वेपी, यश्चैवम्भृतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः, अणोद्घातनस्य खेदज्ञ इत्यनेन मूलोत्तप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कपायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृएनिधत्तनिकाचितरूपां तदपनयनोपायं च वेतीत्येतदभिहितं, अनेन चापनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः प्रसजति । स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली !, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणं, केवलिनस्तर्हि का वाति?, उच्यते-'कुसले' इत्यादि, कुशलोऽत्र क्षीणघातिकाशो विवक्षितः, स च तीर्थकृत सामान्यकेवली वा छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु पुनर्घातिकर्मक्षयान्नो बद्धो भवोपग्राहिकर्मसद्भावानो मुक्तो, यदिवा छमस्थ एवाभिधीयते-'कुशल' अवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकपायोपशमसद्भावात् तदुदयवानिव न बद्धोऽद्यापि तत्सत्कर्मतासद्भावानो मुक्त इति । एवम्भृतश्च कुशलः केवली छद्मस्थो वा यदाचीर्णवानाचरति वा तदपरेणापि
܀܀܀܀܀܀܀
२९१०