SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः (शीलाका.) लोकवि.अ.. उद्देशकः ६ .२१२॥ मुमुक्षुणा विधेयमिति दर्शयति से जं च आरभेजच नारभे, अणारडंचन आरभे, छणं छणं परिणाय लोगसन्नं च सव्वसो ॥ सू० १०३॥ 'स' कुशलो यदारभते आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते मिथ्यात्वाविरत्यादिकं संसारकारणं, तदारब्धव्यमारम्भणीयमनारब्धमनारम्भणीयं चेति, संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य चैकान्तेन निराकार्यत्वात, तनिषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तनिषेधमाह-- 'अणारखं च' इत्यादि, अनारब्धम्-अनाचीणं केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षु रमते-न कुर्यादित्युपदेशो, यच्च मोक्षाङ्गमाचीर्ण तत्गुर्यादित्युक्तं भवति । यत्तद्भगवदनाचीर्ण परिहार्य तन्नामग्राहमाह--'छणं छणं' इत्यादि, 'क्षणु हिंसायाँ' क्षणनं क्षणो-हिंसनं कारणे कार्योपचारात् येन येन प्रकारेण हिंसोत्पद्यते तत्तज्ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद् , यदिवा क्षण:-अवसरः कर्त्तव्यकालस्तं तं ज्ञपरिज्ञया ज्ञात्वाऽऽसेवनापरिज्ञया च आचरेदिति । किं च-'लोयसन्नं' इत्यादि, 'लोकस्य' गृहस्थलोकस्य संज्ञानं संज्ञा-विषयाभिष्वङ्गजनितसुखेच्छा परिग्रहसंज्ञा वा तां च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत , कथं १–'सर्वशः सर्वैः प्रकारैर्योगत्रिकरणत्रिकेणेत्यर्थः, तस्यैवंविधस्य यथोक्तगुणावस्थितस्य धर्म कथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोद्घातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्पथव्यवस्थितस्य कुमार्गनिराचिकीपों हिंसाद्यष्टादशपापस्थानविरतस्यावगतलोकसंज्ञस्य यद्भवति तदर्शयति Ba॥२६२.
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy