SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ भीआचा राङ्गवृत्तिः (शीलाङ्का.) ॥ २९० ॥ हृदयो धम्मं पृच्छति, तेनाचार्यादिना धर्म्मकथिकेनासौ पर्यालोचनीयः - कोऽयं पुरुषो १, मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कं च देवताविशेषं नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयं, एतदुक्तं भवति-धर्म्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः, क्षेत्रतः किमिदं क्षेत्रं तच्चनिकैर्भागवतैरन्यैर्वा तज्जातीयैः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वा भावितं, कालतो दुष्पमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पर्यालोच्य यथायथाऽसौ बुध्यते तथा तथा धर्म्मकथा कार्या, एवमसौ धर्म्मकथायोग्यः, अपरस्य त्वधिकार एव नास्तीति उक्तं च- "जो 'हेउवायपक्खमि हेउओ आगमम्मि आगमिओ । सो ससमय पण्णवओ सिद्धंतविराहओ अण्णो ॥ १ ॥ " य एवं धर्म्मकथा विधिज्ञः स एव प्रशस्त इत्याह च - 'एस' इत्यादि, यो हि पुण्यापुण्यवतोर्धर्मकथासमदृष्टिर्विधिज्ञः श्रोतृविवेचकः 'एषः' अनन्तरोक्तो 'वीरः' कर्म्मविदारकः ' प्रशंसितः' श्लाघितः । किंभूतश्च यो भवतीत्याह - 'जे षडे' इत्यादि, यो ह्यष्टप्रकारेण कर्म्मणा स्नेहनिगडादिना वा बद्धानां जन्तूनां प्रतिमोचकः धर्म्मकथोपदेशदानादिना स च तीर्थकृद्गणधर आचार्यादिर्वा यथोक्तधर्म्मकथा विधिज्ञ इति । क्व पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह - 'उड्ड' इत्यादि, उद्धवं ज्योतिष्कादीन् अधो भवनपत्यादीन् तिर्यक्षु मनुष्यादीनिति । किं च – 'से सव्वओ' इत्यादि, 'स' इति वीरो बद्धप्रतिमोचकः 'सर्वतः ' सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितु शीलमस्येति सर्वपरिज्ञाचारी - विशिष्टज्ञानान्वितः सर्वसंवर चारित्रोपेतो वा स एवंभूतः कं गुण१ यो हेतुवादपक्षे हेतुक आगमे भागमिकः । स श्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः ॥ १ ॥ लोकवि. अ. २ | उद्देशकः ६ ॥ २९० ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy