________________
.२८
॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
दण्डकशादिना ताडयेदिति, उक्तं च-"'तत्थेव य निट्ठवणं बंधण निच्छभण कडगमद्दो वा । निव्विसयं व नरिंदो करेज संघंपि सो कुडो॥१॥" तथा तच्चनिकोपासको नन्दबलात् बुद्धोत्पत्तिकथानकाद्भागवतो वा मल्लिगृहोपाख्यानाद्रौद्रो वा पेढालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत् , द्रमककाणकुण्टादि कश्चित्तमेवोद्दिश्य धर्मफलोपदर्शनेनेति । एवमविधिकथनेनेहैव तावबाधा, आमुष्मिकोऽपि न कश्चिद्गुणोऽस्तीत्याह च- एत्थंपि' इत्यादि, मुमुक्षोः परहितार्थ धर्मकां कथयतस्तावत्पुण्यमस्ति, परिषदं त्वविदित्वाऽनन्तगेपवर्णितस्वरूपकथने 'अत्रापि' धर्मकथायामपि 'श्रेयः पुण्यमित्येतनास्तीत्येवं जानीहि, यदिवाऽसौ राजादिरनाद्रियमाणस्तं साधु धर्मकथिकमपि हन्यात् । कथमित्याह-एत्थंपी'त्यादि, यद्यदसौ पशुवधतर्पणादिकं धर्मकारणमुपन्यस्यति तत्तदसो धर्मकथिकोऽत्रापि श्रेयो न विद्यते इत्येवं प्रतिहन्ति, यदिवा यद्यदविधिकथनं तत्र तत्रेदमुपतिष्ठते-अत्रापि श्रेयो नास्तीति, तथाहि-अक्षरकोविदपरिषदि पक्षहेतु दृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिरितरस्यां चान्यथेति । एवं च प्रवचनस्य हीलनैव | केवलं कर्मबन्धश्च, न पुनः श्रेयो, विधिमजानानस्य मौनमेव श्रेय इति, उक्तंच-सावजणवजाणं वयणाणं
जो न याणइ विसेसं । वुत्तु पि तस्स न खमं किमंग पुण देसणं का?॥१॥" स्यादेतत-कथं तर्हि धर्मकथा कार्येत्युच्यते—'कोऽयं' इत्यादि यो हि वश्येन्द्रियो विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्यकृष्यमाण
१ तत्रैव निष्ठापनं बन्धनं निष्काशनं कट कमदं वा । निर्विषयं वा नरेन्द्रः कुर्यात्सङ्घमपि स क्रुद्धः । १॥२ सावधानवद्ययो. वंचनयोर्यो न जानाति विशेषम् । वक्तुमपि तस्य न क्षमं किमङ्ग पुनर्देशनां कत्तुम् १ ॥२॥
॥२८
॥