________________
बीआचाराङ्गवृत्तिः (चीलाका)
॥२८८॥
कथ्यते, अथवा पूर्णो-जातिकुलरूपाद्युपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ इति, उक्तंच"ज्ञानेश्वर्यधनोपेतो, जात्यन्वयबलान्वितः। तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् ॥१॥"ला एतदुक्तं भवति-यथा द्रमकादेस्तदनुग्रहबुद्धया प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवादेरपि, यथा वा चक्रवर्त्यादेः उद्देशक कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि, अत्र च निरीहता विवक्षिता, न पुनरय नियमा-एकरूपतयैव कथनीयं, तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतो निपुणं स्थूलबुद्धेस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयं, किमसावभिगृहीतमिथ्यादृष्टिरनभिगृहीतो वा संशीत्यापन्नो वा १, अभिगृहीतोऽपि कुतीथिकैव्युद्ग्राहितः स्वत एव वा ?, तस्य चैवम्भूतस्य यद्येवं कथयेद्यथा-"दशसूनासमश्चक्री, दशक्रिसमो ध्वजः। दशध्वजसमा वेश्या, दशवेश्यासमो नपः॥१॥ तद्भक्तिविषयरुद्रादिदेवमवन(देवतादारुवन)चरितकथने च मोहोदयात्तथाविधकम्मोदये कदाचिदसौ प्रदूषमुपगच्छेद, द्विष्टश्चैतद्विदध्यादित्याह च
अवि य हणे, अणाइयमाणे, इत्थंपि जाण सेयंति नस्थि, केयं पुरिसे कं च नए ?, एस वीरे पसंसिए, जे बढे पडिमोयए, उड्डे अहं तिरिय दिसासु, से सव्वओ सव्वपरिन्नाचारी, न लिप्पई छणपएण, वीरे, से मेहावी अणग्घायणखेयन्ने, जेय बन्धपमुक्खमन्नेसी कुसले पुण नो षडे नो मुक्के ॥ सू०१०२ ।।
॥ २८॥ अपिः सम्भावने, आस्तां तावद्वाचा तर्जनम् , अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो