________________
॥ २८७ ॥
कुशला उदाहरन्ति तदुःखं कर्मकृतं तत्कर्माष्टप्रकारं परिज्ञाय तदाश्रवद्वाराणि च तद्यथा - ज्ञानप्रत्यनीकतया ज्ञानावरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु 'सर्वशः' सर्वैः प्रकारैर्योगत्रिककरण त्रिकरूपैर्न वर्त्तेत, अथवा सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्द्दशपूर्वविदो वा यदिवा सर्वशः कथयति 'आक्षेपण्याद्या चतुर्विधया धर्मकथयेति । सा च कीटकथेत्याह- 'जे' इत्यादि, अन्यद्रष्टु ं शीलमस्येत्यन्यदर्शी यस्तथा नासावनन्यदर्शी—यथावस्थितपदार्थद्रष्टा, कश्चैवंभूतो १ - यः सम्यग्दृष्टिमनीन्द्रप्रवचनाविर्भूततत्त्वार्थो, यश्चानन्यदृष्टिः सोऽनन्यारामो - मोक्षमार्गादन्यत्र न रमते । हेतुहेतुमद्भावेन सूत्रं लगयितुमाह – 'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति उक्तं च- "शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्र बौद्धानाम् । येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः ॥ १ ॥" इत्यादि । तदेवं सम्यक्त्वस्वरूपमाख्यातं कथयंचारक्तद्विष्टः कथयतीति दर्शयति- 'जहा पुण्णस्स' इत्यादि, तीर्थकरगणधराचार्यादिना येन प्रकारेण 'पुण्यवतः ' सुरेश्वर चक्रवर्त्तिमाण्डलिकादेः 'कथ्यते' उपदेशो दीयते ' तथा ' तेनैव प्रकारेण 'तुच्छस्य' द्रमकस्य काष्ठाहारकादेः
१ कथाचतुष्टयलक्षणं त्विदं - स्थाप्यते हेतुदृष्टान्तैः स्वमत यत्र पण्डितैः । स्याद्वादध्वनिसंयुक्तं सा कथाऽऽक्षेपणी मता ॥ १ ॥ मिथ्यादृशां मतं यत्र पूर्वापर विरोधकृत । तन्निराक्रियते सद्भिः सा च विक्षेपणी मता ॥२॥ यस्याः श्रवणमात्रेण भवेन्मोक्षा मिला. षिता । भव्यानां सा च विद्वद्भिः प्रोक्ता संवेदनी कथा ॥ ३ ॥ यत्र संसारभोगाङ्ग स्थितिलक्षणवर्णनम् । वैराग्यकारणं भव्यैः, सोक्का लिर्वेदनीकथा ॥ ४ ॥
॥ २८७ ॥