________________
श्रीजाचाराङ्गवृत्ति: (शीलाङ्का.)
॥ २८६ ॥
ममत्वकृतस्तमत्येति, अथवा लोको बाह्योऽभ्यन्तरच, तत्र वाह्यो धनहिरण्यमातृपित्रादिः आन्तरस्तु रागद्वेषादिस्तत्कार्यं अष्टप्रकारं कर्म्म तेन सार्द्ध संयोगमत्येति - अतिलङ्घयतीत्युक्तं भवति । यदि नामैवं ततः किमित्याह – 'एस' इत्यादि, योऽयं लोकसंयोगातिक्रमः 'एष न्यायः एप सन्मार्गः मुमुक्षूणामयमाचारः 'प्रोच्यते' अभिधीयते, अथवा परम् आत्मानं च मोक्षं नयतीति छान्दसत्वात्कर्त्तरि घञ् नायः यो हि त्यक्तलोकसंयोग एष एव परात्मनो मोक्षस्य न्यायः प्रोच्यते - मोक्षप्राप कोऽभिधीयते सदुपदेशात् । स्यादेतत्- किंभूतोऽसावुपदेश इत्यत आह
जं दुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरंति, इइ कम्मं परित्राय सव्वसो जें अणन्नदंसी से अणन्नारामे, जे अणण्णारामे से अणन्नदंसो, जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ, जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ || सू० १०१ ॥
यद्दुःखं दुःखकारणं वा कर्म्म लोकसंयोगात्मकं वा 'प्रवेदितं' तीर्थकृद्भिरावेदितं 'इह' अस्मिन् संसारे 'मानवानां' जन्तूनां ततः किं ? - तस्य 'दुःखस्य' असावलक्षणस्य कर्मणो वा 'कुशला' निपुणा धर्म्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उक्तविहारिणो यथावादिनस्तथाकारिणो जितनिद्रा जितेन्द्रिया देशकालादिक्रमज्ञास्ते एवंभूताः परिज्ञाम्उपादान कारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्ति ज्ञपरिज्ञया प्रत्याख्यान परिज्ञया च परिहरन्ति परिहारयन्ति च । किं च-' इति कम्मं' इत्यादि, इतिः पूर्वप्रक्रान्तपरामर्शको यत्तदुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञां
२. लोकवि. अ. २
| उद्देशकः ६
॥ २८६ ॥