________________
॥ २८५ ॥
वसु द्रव्यमेतच भव्येऽर्थे व्युत्पादितं 'द्रव्यं च भव्य' इत्यनेन भव्यश्च - मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं यद्द्रव्यं तद्वसु, दुष्टं वसु दुर्वसु, दुर्वसु चामौ मुनिश्च दुर्वसुमुनिः - मोक्षगमनायोग्यः, स च कुतो भवति ? - अनाज्ञया| तीर्थकरोपदेशशून्यः स्रीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते ?, तदुच्यते - उद्देशका देरारभ्य सर्वं यथासम्भवमायोज्यं, तथाहि - मिध्यात्वमोहिते लोके संबोद्ध दुष्करं व्रतेष्वात्मानमध्यारोपयितु ं रत्यरती निग्रहीतु शब्दादिविपविष्टानिष्टेषु मध्यस्थतां भावयितुं प्रान्तरूक्षाणि भोक्तुम्, एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधारकल्पया दुष्करं सचरितु ं तथाऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुम्, असहने च कम्र्मोदयांऽनाद्यतीत काल सुखभावना च कारणं, जीवो हि स्वभावतो दुःखभोरुरनिरोधसुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति, अवसंश्व किंभूतो भवतीत्याह – 'तुच्छ' इत्यादि, तुच्छो-रिक्तः, स च द्रव्यतो निर्द्धनो घटादिर्वा जलादिरहितो भावतो ज्ञानादिरहितः, ज्ञानादिरहितो हि क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायति वक्तु ज्ञानसमन्वितो वा चारित्ररिक्तः पूजा सत्कारमयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितु तथाहि प्रवृत्तमन्निधिः सन्नि धेर्निर्दोषतामा चष्टे, एवमन्यत्रापीति । यस्तु कषाय महाविषा गदकन्पभगवदाज्ञोपजीवकः स सुवसुमुनिर्भवत्यरिक्तो न ग्लायति च वक्तु ं यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच्च, आह च – 'एस' इत्यादि, 'एष' इति सुवसुमुनिर्ज्ञानाद्यरिक्तो यथावस्थितमार्गप्ररूपको वीरः कर्म्मविदारणात् ' प्रशंसितः' तद्विद्भिः श्लाघित इति । किं च- 'अच्चेई 'त्यादि, स एवं भगवदाज्ञानुवर्त्तको वीरोऽत्येति- अतिक्रामति, कं ? – 'लोकसंयोग' लोकेना संयतलोकेन संयोगः -सम्बन्धः
॥ २८५ ॥