________________
भीआचाराङ्गवृत्तिः (शीलाङ्का.)
॥ २८४ ॥
मुनेर्भावः मुनित्वं तदप्यसावेव मौनं वा वाचः संयमनम् अस्य चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात् ? धुनीयात् कर्म्मशरीरकं औदारिकादिशरीरं वा, अथवा 'धुनीहि ' विवेचय पृथक्कुरु तदुपरि ममत्वं मा विधत्स्वेति भावार्थः । कथं तच्छरीरकं धृयते, ममत्वं वा तदुपरि न कृतं भवतीत्याह - 'प्रान्तं' स्वाभाविकर सर हितं स्वल्पं वा 'रूक्षम्' आगन्तुकस्नेहादिरहितं द्रव्यतो भावतोऽपि प्रान्तं - द्वेषरहितं विगतधूमं रूक्षं-रागरहितमपगताङ्गारं 'सेवन्ते' भुञ्जते, के ? - 'वीरा' साधवः, किंभूताः १- 'समत्वदर्शिन: ' रागद्वेषरहिताः सम्यक्त्वदर्शिनो वा- सम्यक् तत्त्वं सम्यक्त्वं तद्दर्शिनः परमार्थदृशः, तथाहि इदं शरीरकं कृतघ्नं निरुपकारि, एतत्कृते प्राणिनः ऐहिकामुष्मिक क्लेशभाजो धवन्ति, अनेकादेशे चैकादेश इतिकृत्वा, प्रान्तरूक्षसेवी समत्वदर्शी च कं गुणमवाप्नोतीत्याह - 'एस' इत्यादि, एष इति प्रान्तरूक्षाहारसेवनेन कर्मादिशरीरं धुनानो भावतो भवौघं तरतीति । कोऽसौ ? – 'मुनिः' यतिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्ण एव भवौघं कथ भवौघं तरति ! - यो 'मुक्तः ' सबाह्याभ्यन्तरपरिग्रहरहितः कश्च परिग्रहान्मुक्तो भवति ? - यो भावतः शब्दादिविषयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स एव भवौघं तरति, तीर्ण एवेति वा स्थितम् । इतिरधिकार परिसमाप्तौ ब्रवीमीति पूर्ववत् । यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह -
दुव्वसुमुणी अणाणाए, तुच्छए गिलाइ वत्तए, एस वीरे पसंसिए, अच्चेइ लोयसंजोगं, एस नाए पबुच्चइ ॥ सू० १०० ॥
लोकवि. अ. २
उद्देशकः ६
॥ २८४ ॥