SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ XX ० २८३॥ यस्मादी रत्यत्ती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेष, तस्माच्छब्दान् स्पर्शाश्च मनोजेतरभेदभिन्नान 'अहियासमाणे'त्ति सम्यक् महमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति-मनोज्ञान शब्दान् श्रत्वा न रागमुपयाति, नापीतरान् द्वष्टि, आद्यन्तग्रहणाच्चेतवेषामप्युपादानं द्रष्टव्यं, तत्राप्यतिसहनं विधेयमिति उक्तं च-"'सद्देसु अ भद्दयपावएसु, सोयविसयमुवगएसु। तुण व रुट्ठण व समणेण सयान होअव्वं ॥ १॥ एव रूवेसु अ भद्दयपावएसु०। तहा गंधेसु अ०॥" इत्यादि वाच्यं, ततश्च शब्दादीविषयानतिसहमानः किं कुर्यादित्याह-निविद' इत्यादि, इहोपदेशगोचरापन्नो विनेयोऽभिधीयते, सामान्येन वा प्रमभोग्यमपदेशः, निर्विन्दस्व-जुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिर्निन्दिस्ताम् 'इह' मनुष्यलोके यज्जीवितममरामजीवितं वा तस्य या नन्दिा-तुष्टिः प्रमोदो यथा ममैतत्समृद्धयादिकमभृद्भवति भविष्यति वेत्येवं विकल्पजनिती नन्दी जगासस्व-यथा किमनया पापोपादनहेतुभृतयाऽस्थिरयेति ?, उक्तं च-"विभव इति किं मदस्ते १, च्यतविभवः किं विषादमुपयासि ?। करनिहितकन्दुकसमाः, पातोत्पाता मनुष्याणाम् ॥१॥" एवं रूपबलादिष्वपि वाच्य सनत्कुमारदृष्टान्तेनेति, अथवा पश्चानामप्यती चाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे, स्यादेतत-किमालम्ब्य करोतीत्याह—'मुणी' त्यादि, मुनिखिकालवेदी यतिरित्यर्थः, मुनेरयं मौनः-संयमो, यदिवा १शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यम् ॥१॥ एवं रूपेषु च भद्रक 80 २८३ ॥ पापकेषु । तथा गन्धेवु च ।
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy