________________
बीआचाराङ्गवृत्तिः (शीन्लाङ्का.) ॥ २८२॥
सम्बन्धः, किं च-'तं' इत्यादि, 'तं' पूर्वव्यावर्णितस्वरूपं परिग्रहं द्विविधयाऽपि परिज्ञया परिज्ञाय 'मेधावी' ज्ञात
लोकवि. प्र.. ज्ञेयो विदित्वा 'लोक' परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणं 'वान्त्वा' उद्गीर्य 'लोकस्य प्राणिगणस्य संज्ञालाका दशप्रकारा अतस्ता 'स' इति मुनि:, किंभूतो?-'मतिमान्' सदसद्विवेकज्ञः 'पराक्रमेथाः' संयमानुष्ठाने समुद्यच्छे।, उद्देशकः ६ संयमानुष्ठानोद्योगं सम्यग्विदध्या इतियावद् , अथवाऽष्टप्रकारं कारिषड्वर्ग वा विषयकषायान् वा पराक्रमस्वेति, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याह-तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिग्रहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः स्यात् , तामुत्पन्नां संयमविषयां 'न सहते' न क्षमते, कोऽसौ ?-विशेषेणेरयति-प्रेयरति अष्टप्रकार कारिषड्वर्ग वेति वीर:-शक्तिमान् , स एव वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते तां 'न सहते' न मर्षति, या चारतिः संयमे विषयेषु च रतिस्ताभ्यां विमनीभूतः शब्दादिषु न रज्यति, अतो रत्यरतिपरित्यागान विमनस्को भवति नापि रागमुपयातीति दर्शयति-यस्मात्यक्तरत्यरतिरविमना वीरस्तस्मात् कारणाद्वीरो 'न रज्यति' शब्दादिविषयग्रामे न गायं विदधाति । यत एवं ततः किमित्योह
सद्दे फासे अहियासमाणे निविद नंदि इह जीवियस्स। मुणी मोर्ण समायाय, धुणे कम्मसरीरगं ॥२॥ पंतं लुहं सेवंति, वोरा संमत्तदंसिणो । एस ओहंतरे मुणी, तिने
॥ २८२॥ मुत्ते विरए वियाहिए ॥ ३॥ त्तिबेमि ॥ सू० ९९॥